________________
[ ५३ ]
( २० ) - अयुक्तमेतत् । ज्ञानस्य ज्ञेयांश एवावरणस्यावारकत्वात्, स्वरूपावरणेऽचैतन्यप्रसङ्गात् । ज्ञानानन्त्ये ज्ञेयानन्त्यस्यापि धौव्यात् । उक्तं च-सूक्तं चात्मपरात्मकर्तृकर्म जान पद1 पदमिति दिग् ॥
ततः कृतार्थानां परिणाम क्रमसमाप्तिर्गुणानाम् ॥ ४-३२ ॥
अथ कोऽयं क्रमो नाम १ इति
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः
क्रमः ।। ४-३३ ॥
भाष्यम् - क्षणानन्तर्यात्मा परिणामस्या परान्तेनावसानेन गृह्यते क्रमः । न ह्यननुभूत क्रमक्षणा नवस्य पुराणता वलस्यान्ते भवति । नित्येषु च क्रमो दृष्टः । द्वयी चेयं नित्यता, कूटस्थनित्यता परिणामिनित्यता च । तत्र कूटस्थनित्यता पुरुषस्य, परिणामिनित्यता गुणानाम् । यस्मिन् परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम् । उभयस्य च तत्त्वानभिघातानित्यत्वम् । तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिग्रः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलन्धपर्य-वसानः । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्रपुरुपेषु खरु-