________________
[४४]
बाहुल्येन, आत्मद्रव्यगुणपर्यायगुणस्य रूपस्य च तस्य शुक्लध्यानशरीरघटकतया कैवल्यहेतुत्वमपि । ईश्वरस्यानीश्वरस्य वा विवेकजज्ञानवतस्तदभाववतो वा "सत्त्वपुरुपयोः शुद्धिसाम्ये कैवल्यम्" इत्यप्ययुक्तम् , विवेकजं केवलज्ञानमन्तरेणोक्तशुद्धिसाम्यस्यैवानुपपत्तेः । " दग्धतशवीजस्य ज्ञाने पुनरपेक्षा नास्ति" इत्युक्तेनियुक्तिकत्वादात्मदर्शनप्रतिबन्धकस्यैव कर्मणः केवलज्ञानप्रतिवन्धकत्वेन तदुपगमे तदुत्पत्तेरवर्जनीयत्वान्निष्प्रयोजनस्यापि फलरूपस्य तस्य स(स्त्रास्त्रसामग्रीसिद्धत्वात् । न हि प्रयोजनक्षतिभिया सामग्रीकार्य नार्जयतीति । तदिदमुक्तम्-" क्लेशपक्तिमंतिज्ञानान्न किञ्चिदपि केवलात् । तमःप्रचयनिःशेषविशुद्धिप्रभवं हि तत् ॥१॥" इति गुणविशेषजन्यत्वेऽप्यात्मदर्शनवन्मुक्तौ तस्याव्यभिचारित्वं तुल्यम् । वस्तुतो ज्ञानस्य सर्वविषयकत्वं स्वभावः, छद्मस्थस्य च विचित्रज्ञानावरणेन स प्रतिवध्यत इति | निःशेषप्रतिबन्धकापगमे ज्ञाने सर्व विषयकत्वमावश्यकम् । तदुक्तं-"ज्ञो ज्ञेये कथमश: स्यात् असति प्रतिबद्धरि दाोऽग्निर्दाहको न स्यात् कथमप्रतिवन्धकः" ।। ( योगबिन्दु. ४३१.) इति । एतेन विवेकजं सर्वविषयकं ज्ञानमुत्पन्नमपि सत्त्वगुणत्वेन निवृत्ताधिकारायां प्रकृतौ प्रविलीयमानं नात्मानमभिस्पृशतात्यात्मार्थशून्यनिर्विकल्पचिद्रूप एव मुक्तौ व्यवतिष्ठत इत्यप्यपास्तम् । चित्त्वावच्छेदेनैकसदेविषयकत्वस्वभावकल्पनाद्, अर्थशून्यायां चिति मानाभावाद्, विम्यरूपस्य चित्सामान्यस्याविवर्तस्य कल्पनेऽचित्सामान्यस्यापि