________________
उ० टौका
अ०८
२५४
***
ष्यन्ति ते पुरुषाः संसारं तरिष्यन्ति पुनस्तैः पुरुषः हो अपि लोको आराधितौ सफलौ कृतौ इत्यर्थः इत्यादि दोधकान् कपिलोक्तानि श्रुत्वा तत्र केचिचौराः प्रथमेनैव दोधकेन प्रतिबुद्धाः केचित् द्वितीयेन एवं पञ्चशतचौरा अपि प्रतिबद्धाः प्रव्राजिताश्व इति कापिलीयं अध्ययनं अष्टमं संपूर्ण । इति श्रीमदुत्तरा ध्ययनस्त्रार्थदीपिकायां उपाध्याय श्रीलक्ष्मीकौत्ति' गणिशिष्य लक्ष्मीवल्लभगणि विरचितायां कापिलिकाध्ययनस्यार्थः संपूर्णः ॥ ८ ॥ अथ नवमं अध्ययनं कव्यते श्रष्टमेऽध्ययने हिनिर्लोभत्वं उक्त निर्लोभ पुरुषोहि इंद्रादिभिः पूज्यः स्यात् नवमेऽध्ययने नमि राजर्षिरिन्द्रेण आगत्य भाव पूर्वकं वन्दितः इति अष्टमनवमाध्ययनयोः सम्बन्धः तत्र नमिस्तु प्रत्ये क्रबुद्धः प्रत्येक बुद्धाश्चत्वारः समकालसुरलोकच्यवनप्रत्येक प्रतिबोध प्रव्रज्याग्रहणकेवलज्ञानोत्पत्ति सिडि गमनभाजी जाता स्तेषु प्रथमः करकंडू १ द्वितीयो हिमुखः २ तृतोयो न मि राजा ३ चतुर्थो नग्गति ४ रिति तेषां प्रत्येकबुद्धानां कथा न कं उच्च तत्र प्रथमं करकण्डू कथा यथा करकण्डूकलिङ्केसु पञ्चालेसु यदुम्महो नमौराया विदेहेसु गन्धारस्य निम्बई १ श्रीवासु पूज्य जिनपतिकल्याणकपञ्चका स्ते विनष्टपापायां चम्पायां नगर्यां दधिवाहन नामा नृपोभूत् तस्य चेटकमहाराज पुत्री पद्मावती प्रियाजाता साऽन्यदा गर्भिणौ बभूव गर्भानुभावेन च तस्याईदृशं दोहदमुत्पन्नं अहं पुवेषधरा भत्र धृता तपत्त्रा गजाग्रभागा रूढा श्रारामे सञ्चरामि लज्जया इदं दोहदं भूपतेः पुरोवक्त मशक्ता सा कृशाङ्गी बभूव राजाऽन्यदा तस्याः कृशाङ्ग कारणं पृष्टं अति निर्बन्धेन सा खदोहदङ्कथयामास राजा अत्यन्त तुष्टस्तां पट्टहस्ति स्कन्ध समारोप्य स्वयं तच्छि रसि छत्र' धृतवान् तादृश एव राजा गजारूढ रात्री पञ्चाद्भागेस्थितो वने ययौ तस्मिन् समये तत्र जलदारम्भो वभूव तत्र सलको प्रमुख विविध लक्ष पुष्प गन्धे र्जलसिक्त मृगन्धं श्व विह्वलीभूतः स करो मदोन्मत्तः स्ववासभूमिं स्मरन् अटवीं प्रति अधावत् अखवारैः पदातिभिश्चासौ न सृष्टः तेन गजेन गर्भान्वितया कदलीकोमल शरीरयाराना सार्द्धं स राजा महाटव्यांनीतः सम विषमोबत दूरासवाननेक भावान् पश्यन् भूपतिर्बटमेकमायातं दृष्ट्वा
*********************************
राय धनपतसिंह बाहादुर का श्र०सं० उ० ४१ मा भाग