SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीमद्भट्टाकलकदेवविरचितः न्यायविनिश्चयः स्याद्वादविद्यापतिश्रीमद्वादिराजाचायरचितन्यायविनिश्चयविवरणसहितः [ प्रथमः प्रत्यक्षप्रस्तावः ] श्रीमज्ज्ञानमयो दयोन्नतपदव्यक्तो विविक्तं जगत्, कुर्वन् सर्वतनूमदीक्षणसखैर्विश्वं वचोरश्मिभिः । व्यातन्वन् भुवि भव्यलोकनलिनीषण्डेष्वखण्डश्रियम् , श्रेयः शाश्वतमातनोतु भवतां देवो जिनाहर्पतिः॥१॥ विस्तीर्णदुर्नयमयप्रबलान्धकार दुर्बोधतत्त्वमिह वस्तु हितावबद्धम् । व्यक्तीकृतं भवतु नः सुचिरं समन्तात् सामन्तभद्रवचनस्फुटरत्नदीपैः ॥ २ ॥ गूढमर्थमकलकवाङ्मयागाधभूमिनिहितं तदर्थिनाम् । व्यञ्जयत्यलमनन्तवीर्यवाग्दीपवर्तिरनिशं पदे पदे ॥ ३ ॥ यत्सूक्तसारसलिलस्नपनेन सन्तः चेतोमलं सकलमाशु विशोधयन्ति । लद्ध्यं न यत्पदमतीव गभीरमन्यैः ते मां पुनन्तु मतिगिरतीर्थमुख्याः ॥ ४ ॥ प्रणिपत्य स्थिरभक्त्या गुरून् परानप्युदारबुद्धिगुणान् । न्यायविनिश्चयविवरणमभिरमणीयं मया क्रियते ॥ ५ ॥ विद्यासागरपारगैर्विरचिताः सन्त्येव मार्गाः परे, ते गम्भीरपदप्रयोगविषया गम्याः परं तादृशैः । बालानां तु मया सुखोचितपदम्यासक्रमश्चिन्त्यते मार्गोऽयं सुकुमारवृत्तिकतया लीलागमान्वेषिणाम् ॥ ६ ॥ समन्तभद्राचार्यायेति वचनविशेषणम् , पक्षे समन्तात् भद्रकारकैति । २ अकलवाचार्यायेति वाच्यविशेषणम् , पच्चे कलकरहितेति । ३ अनन्तवीर्याचार्यसम्बन्धीति वागविशेषणम् , पक्षे अनन्तसामर्थ्यविशिष्टेति । न्यायविनिश्चयविवरणकर्तर्वादिराजस्य गुरोर्नाम । ५ वादिराजेन ।
SR No.007279
Book TitleNyayvinischay Vivaran Part 01
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy