________________
त्रिलोकसारे
त्रिंशत् पंचविंशतिः पंचदश दश त्रीणि पंचहीनैकं । लक्षं शुद्धं पंच च पृथ्वीषुः क्रमेण निरयाणि ॥ १५१ ॥ तीसः । त्रिंशत् पंचविंशतिः पंचदश दश त्रीणि पंचहींनैकं एतत्सर्व लक्षं शुद्धं पंच च पृथ्वीषु क्रमेण निरयाणि विलानि इत्यर्थः ॥ १५१ ॥
अथ तास्वतिशीतोष्णविभागमाह;रयणप्पहपुढवीदो पंचमतिचउत्थओत्ति अदिउण्हं । पंचमतुरिए छ8 सत्तमिए होदि अदिसीदं ॥ १५२॥
रत्नप्रभापृथ्वीतः पंचमत्रिचतुर्थातं अत्युष्णम् ।
पंचमतुरीये षष्ठयां सप्तम्यां भवति अतिशीतम् ॥ १५२ ॥ रयण । रत्नप्रभापृथ्वीमारभ्य पंचमभुवः त्रिचतुर्थभागपर्यंतं अत्युष्णं पंचमभुवश्चतुर्थे भागे षष्ठ्यां सप्तम्यां च भुवि भवत्यतिशीतम् ॥ १५२ ॥
अथ तास्विंद्रकश्रेणीबद्धसंख्यामाह;तेरादि दुहीणिंदय सेढीबद्धा दिसासु विदिसासु । उणवण्णडदालादी एक्कक्केणूणया कमसो ॥ १५३ ॥ त्रयोदशाद्या द्विहीना इंद्रकाः श्रेणीबद्धा दिशासु विदिशासु । एकोनपंचाशदष्टचत्वारिंशादि एकैकेन न्यूनाः क्रमशः ॥ १५३ ॥ तेरादि । त्रयोदशाद्या विहीना इंद्रकाः श्रेणीबद्धा दिशासु यथासंख्यमेकोनपंचाशदष्टचत्वारिंशदादि पटलं पटलं प्रत्येकैकेन न्यूनाः क्रमशः॥ १५३॥
अथ तास्विंद्रकसंज्ञां गाथाषदेनाह;सीमंतणिरयरौरवभंतुभंतिदया य संभंतो। तत्सोवि असंभंतो वीभंतो णवमओ तत्थो ॥ १५४ ॥