________________
लोकसामान्यधिकारः ।
अंजनमूलिका अंका स्फटिका चंदना सर्वार्थका बकुला । शैलाया च सहस्रा एकैका लोकचरमगता ॥ १४८ ॥
६७
अंजण । अंजनमूलिका अंका स्फटिका चंदना सर्वार्थका बकुला शै-लाख्याच सहस्रप्रमिता एकैका लोकचरमगताः ॥ १४८ ॥
अथ द्वितीयादीनां बाहुल्यमाह; - बत्तीसमट्टवीसं चउवीसं वीस सोलसद्वाणि । मिछ पुढवीणं सहस्समाणेहिं बाहुलियं ॥ १४९ ॥ द्वात्रिंशदष्टाविंशतिः चतुर्विंशतिः विंशतिः षोडशाष्टौ । अधस्तनषट्पृथ्वीनां सहस्रमानैः बाहुल्यं ॥ १४९ ॥
बत्तीस । द्वात्रिंशदष्टाविंशतिः चतुर्विंशतिः विंशतिः षोडशाष्टौ अध-स्तनषट्पृथ्वीनां योजनसहस्रबाहुल्यम् ज्ञेयम् ॥ १४९ ॥
अथ तासु स्थितपटलानां स्थानान्याह ;सत्तमखिदिबहुमज्झे बिलाणि सेसासु अप्पबहुलोत्ति । हेब्रुवरिं च सहस्सं वज्जिय पडलक्कमे होति ॥ १५० ॥
सप्तमक्षितिबहुमध्ये बिलानि शेषासु अब्बहुलांतं ।
अध उपरि च सहस्रं वर्जयित्वा पटलक्रमेण भवति ॥ १५० ॥
सत्तम । सप्तमक्षितिबहुमध्ये बिलानि शेषासु अब्बहुल भागपर्यंतं अधउपरि च सहस्रयोजनं वर्जयित्वा पटलक्रमेण भवंति ॥ १५० ॥
अथ प्रथमादीनां विलसंख्यामाह; -
तीसं पणुवीसं पण्णरसं दस तिष्णि पंचहीणेक्कं । लक्खं सुद्धं पंच य पुढवीसु कमेण णिरयाणि ॥ १५१ ॥