________________
त्रिलोकसारे
I
गुणिते ऊर्ध्वायत क्षेत्रफलं स्यात् । अधोलोकस्य मध्यफलं " मुखमूमिसमास" इत्यादिनानीय ऊर्ध्वं छित्वा तिर्यगायतचतुरस्रं यथा भवति तथा संस्थाप्य भुजकोटिवधे " त्यादिना तिर्यगायतक्षेत्रफलमानयेत् ॥ ११५ ॥ अथ यवमुरजक्षेत्रफलमानयति ;रज्जुतयस्सोरणे सत्तदओ जदि हवेज्ज एक्केसे | किम कदे संपादे एक्कजउस्सेहमाणमिणं ॥ ११६ ॥ रज्जुत्रयस्यापसरणे सप्तोदयो यदि भवेत् एकस्याम् । किमिति कृते संपाते एकयवस्योत्सेधमानमिदम् ॥ ११६ ॥ रज्जु । रज्जुत्रयस्यापसरणे सप्तोदयो यदि भवेत् एकरज्ज्वपसरणे कियानुदय इति संपाते कृते आगतमेकयवोत्सेधप्रमाणमिदं । एकयवस्य १ इयत्युदये अर्धयवस्य किमिति संपाते अर्धयवोत्सेधमानं स्यात् । पश्चादर्धयवक्षेत्रफलं " मुखभूमिजोगदले "त्यादिनानीय र एकार्धयवस्य इयति फले अष्टादशार्धस्य किमिति संपात्य षड़भिरपवर्तिते सर्वं यवक्षेत्रफलं १२ स्यात् । मुख ९ भूमि ४ जोग ५ दले ३ पदे गुणिते पदधनं होदीत्यर्धमुरजक्षेत्रफलमानीयार्धमुरजस्यैतावति ५ फले एकमुरजस्य किमिति संपात्यापवर्त्य एतयवक्षेत्रफले २१ संयोज्य भाजिते २८ यवमुरजक्षेत्रफलं भवति । यवमध्यक्षेत्रस्थयवान् सर्वान् गुणयित्वा २४ पूर्ववदर्धयवक्षेत्रफलमानीय पुनरर्धयवस्य एतावतिर एकयवस्य किमिति संपात्यापवर्तिते एकयवक्षेत्रफलं स्यात् । एकयवस्य एतावति फले चतुविंशतियवानां किमिति संपात्य षड् भिरपवर्तिते यवमध्यक्षेत्रफलं भवति११६ अथ मंदर क्षेत्र फलानयनप्रकारं दर्शयतिः
५२
"
अद्धं चउत्थभागो सगबारसमं तिदालबारंसो । सगबारंस दिवडूं रज्जुदओ मंदरे खेत्ते ॥ ११७ ॥