________________
लोकसामान्याधिकारः।
येत् । तदा तत्तद्धानिरहिता तत्र तत्र आयतिर्भवेत् । ऊर्ध्वलोकार्धचयानयने मुख १ भूम्योर्विशेषे ५ सति ४ पश्चादर्धचतुर्थस्य ३ चतुश्चये ४ द्वितीयार्घस्य ३ कियांश्चय इति संपात्यापवर्त्य गुणितराशौ १२ एकरज्जुसमानछेदेन मेलने कृते १९ सत्यर्धद्वितीयस्य प्रथमचयस्तस्मिंश्चये प्राकृतचयमेलने कृते ७ उपरितनार्धद्वितीयचयो भवति । अर्धचतुर्थस्य ३ चतुश्वये ४ दलस्य ३ किमिति संपात्यापवर्त्य तत्प्राक्तनचये , मेलयेत् ॐ५ तदुपरितनचयः स्यात् । उपरितनोलोकहान्यानयने अर्धचतुर्थस्य चतुर्हानौ दलोदयस्य किमिति संपात्यागतहानि प्राक्तनदलचये स्फेटयेत् । एवं सति उपरितनदलहानिरहितफलं स्यात् । एवमूर्ध्वदलचतुष्टयहान्यानयनेपि पूर्वपूर्वहानिफले चतुःसप्तमहानिस्फेटने २७ तत्तद्धानिरहितायतिर्भवति २३ । । १५ दलोदयस्य ३ एतावद्धानौ । एकोदयस्य किमिति संपात्य षष्ठदलहानिफले १५ स्फेटने एकरज्जुफलं स्यात् । अधोलोकक्षेत्रफलानयने मुखं १ भूमि ७ योग ८ दले ४ पद ७ गुणिते २८ क्षेत्रफलं स्यात् । तदेव वेधेन ७ गुणितं घनफलं १९६ स्यात् ॥ ११४ ॥
इतोऽधोलोकोऽष्टधा भेदयति;सामण्णं दो आयद जवमुर जवमज्झ मंदरं दूसं । गिरिगडगेणवि जाणह अट्ठवियप्पो अधो लोगो ११५
सामान्यं व्यायतं यवमुरजं यवमध्यं मंदरं दृष्यम् । गिरिकटकेनापि जानीहि अष्टविकल्पः अधोलोकः ॥ ११५ ॥
सामण्णं । सामान्यमूर्ध्वायतं तिर्यगायतं यवमुरजं यवमध्यं मंदरं दुष्यं गिरिकटकेन सह अष्टविकल्पो अधोलोक इति जानीहि । सामान्यक्षेत्रफलं "मुखभूमीजोगदले"त्यादिना सुगमं । अधोलोकस्य मध्यं छित्वा आयतचतुरत्रं यथा भवति तथा व्यत्यासेन संस्थाप्य “भुजकोटिवध" इत्यादिना