________________
त्रिलोकसारे
जगच्छ्रेण्या वर्गः जगत्प्रतरो भवति तद्धनो लोकः ।
इति बोधितसंख्यानस्य इतः प्रकृतं प्ररूपयामः ॥ ११२ ॥ जग । जगच्छ्रेण्या वर्गः तत्प्रतरो भवति । तस्याः श्रेण्या घनो लोक इत्यस्माभिर्बोधितसंख्यानस्य शिष्यस्य इतः परं प्रकृतं प्ररूपयामः ॥ ११२॥ उपमाप्रकरणं समाप्तम् ।
पूर्वगाथयैवोक्ता पातनिका;
उदयदलं आयामं वासं पुव्वावरेण भूमिमुहे । सत्तेक पंचपक्क य रज्जू मज्झम्हि हाणिचयं ॥ ११३ ॥ उदयदलं आयामः व्यासः पूर्वापरेण भूमिमुखे । सप्तैकं पंचैकं च रज्जुः मध्ये हानिचयम् ॥ ११३ ॥
उदय । उदय १४ दलं ७ आयामः दक्षिणोत्तरव्यास इत्यर्थः । पूर्वापरहानिचयकथनात् चतुर्दशरज्जूत्सेधपर्यंतमायामः सर्वत्र सप्तरज्जुरेवेति ज्ञातव्यं । पूर्वापरेण व्यासस्तु भूमौ मुखे च यथासंख्यं सप्तरज्जवः एका रज्जुः पंचरज्जवः एका रज्जुः तयोर्मुखभूम्योर्मध्ये हानिचयौ सायौ ॥ ११३ ॥
५०
अथ तत्साधनप्रकारं कथयन्नाह ;
मुहभूमीण विसेसे उयहिदे भूमुहादु हाणिचयं । जोगदले पदगुणिदे फलं घणो वेधगुणिदफलं ११४
मुखभूम्योः विशेषे उदयहिते भूमुखतः हानिचयं ।
योगदले पदगुणिते फलं घनो वेधगुणितफलम् ॥ ११४ ॥ मुह । भूमौ ७ मुखं १ हीनं कृत्वा ६ सप्तरज्जूदयस्य षट्ररज्जुहानै एकरज्जूदयस्य कियती हानिरिति संपात्य तद्धानिं समानछेदेन सप्त रज्वायामे स्फेटयेत्पुनस्तद्वानिमेव तत्रावशिष्ट एकरज्जुपर्यंते स्फेट