________________
लोकसामान्याधिकारः।
अथ सूच्यंगुलस्याधुच्छेदं दर्शयन्नाह;विरलिजमाणरासिं दिण्णस्सद्धच्छिदीहिं संगुणिदे। अद्धच्छेदा होंति हु सब्बत्थुप्पण्णरासिस्स ॥१०७॥ .. विरल्यमानराशौ देयस्याच्छिदिभिः संगुणिते । __अर्धच्छेदा भवंति हि सर्वत्रोत्पन्नराशेः ॥ १०७ ॥
विर । विरल्यमानराशिः पल्यच्छेदस्तस्मिन् देयस्य पल्यस्यार्घच्छेदैः संगुणिते सत्युत्पन्नराशेः सूच्यंगुलस्यार्धच्छेदा भवंति खलु सर्वत्र ॥ १०७॥
अथ सूच्यंगुलस्य वर्गशलाका दर्शयन्नाह;विरलिदरासिच्छेदा दिण्णद्धच्छेदछेदसंमिलिदा । वग्गसलागपमाणं होंति समुप्पण्णरासिस्स ॥१०८॥
विरलितराशिच्छेदा देयार्धच्छेदछेदसंमिलिताः ।
वर्गशलाकाप्रमाणं भवंति समुत्पन्नराशेः ॥ १०८ ॥ विरलिद । सूच्यंगुलार्धच्छेदस्यार्धितवारा व १ व १ युताः व २ सूच्यंगुलस्य वर्गशलाका भवंति । " वग्गादुवरिमवग्गे दुगुणा दुगुणा हवंति अद्धछिदी” इति न्यायेन द्विगुणाः सूच्यंगुलार्धच्छेदाः । छे छे २ प्रतरांगुलार्धच्छेदा भवंति । “वग्गसला रूवहिया" इतिन्यायेन रूपाधिकसूचीवर्गशलाकाः प्रतरांगुलवर्गशलाक भवंति । द्विरूपवर्गधारोत्पन्नस्य सूच्यंगुलस्य समानस्थाने द्विरूपधनधारायां धनांगुलस्योत्पन्नत्वात् । “तिगुणा तिगुणा परहाणे' इति न्यायेन त्रिगुणाः सूच्यंगुलार्धच्छेदाःघनांगुलार्धच्छेदा भवंति। "सपदे परसम” इति न्यायेन सूच्यंगुलवर्गशलाका एव घनांगुलस्य वर्गशलाका भवति । “ विरलिज्जमाणरार्सि दिण्णस्स” इत्यादिन्यायेन विरल्यमानपल्यच्छेदासंख्यातभागेषु धनांगुलच्छेदैर्गुणितेषु सत्सु जगच्छ्रेण्याः छेदाः भवंति ॥ १०८ ॥