________________
४८
त्रिलोकसारे
अथ जगच्छ्रेण्या वर्गशलाकाप्रदर्शनार्थमाह;दुगुणपरीतासंखेणवहरिदद्धारपल्लवग्गसला। बिंदंगुलवग्गसलासहिया सेढिस्स वग्गसला ॥ १०९ ॥
द्विगुणपरीतासंख्येनापहृताद्धारपल्यवर्गशलाः ।
वृंदांगुलवर्गशलासहिता श्रेण्या वर्गशलाः ॥ १०९ ॥ दुगुण। द्विगुणपरिमितासंख्यातजयन्येनापहृताद्धारपल्यवर्गशलाका वृंदांगुलवर्गशलाकासहिता जगच्छ्रेण्या वर्गशलाका भवंति । द्विगुणपरिमितासंख्यातजघन्येनापहृतत्वे उपपत्तिरुच्यते । अद्धापल्यार्धच्छेदराशेरर्धच्छेदाः पल्यवर्गशलाकामात्राः छेदराशेः प्रथममूलस्यार्धच्छेदाः पल्यवर्गशलाकाध भवति द्वितीयमूलस्यार्धच्छेदास्तदर्ध, तृतीयमूलस्यार्धच्छेदाश्च तदर्धम् । एवं प्रतिवर्गमूलमर्धच्छेदाः अर्धार्धक्रमेण तावद्गच्छंति यावच्छेदराशेरधस्ताद्वर्गमूलानि जघन्यपरिमितासंख्यातस्य रूपाधिकार्धच्छेदमात्राणि गत्वा चरमं यद्वर्गमूलं तस्यार्धच्छेदा द्विगुणपरिमितासंख्यातजघन्येनापहृताद्धारपल्यवर्गशलाकामात्रा जायते । यथा उपर्युपरिवर्गेषु अर्धच्छेदा द्विगुणा द्विगुणा जायते तथाधोऽधोवर्गमूलेष्वप्यर्धच्छेदा अर्धार्धमात्रा जायते इति युक्त्या जघन्यपरिमितासंख्यातस्य रूपाधिकार्धच्छेदमात्रपूरणवर्गमूलस्यार्धच्छेदा रूपाधिकार्धच्छेदमात्रद्विकसंवर्गेण द्विगुणपरिमितासंख्यातजघन्यप्रमाणेन विभताद्धारपल्यवर्गशलाकामात्राः। “दिण्णद्धच्छेदछेदसंमिलिदा" देयस्य घनांगुलस्य छेदछेदाः वर्गशलाकास्तेषु संमिलिताः । इदं समुत्पन्नराशेर्जगच्छ्रेण्या वर्गशलाकाप्रमाणं भवति । इदं सर्व मनसि कृत्वा “ दुगुणपरित्तासंखे" इत्यायुक्तं । " वग्गादुवरिमवग्गे” इत्यादिन्यायेन द्विगुणश्रेणीछेदा जगत्प्रतरछेदा भवंति । " वग्गसला रूवहिया ' इति न्यायन रूपाधिकश्रेणिवर्गशलाका जगत्प्रतरवर्गशलाका भवंति । “तिगुणा तिगुणा परटाणे"