________________
४२
.
त्रिलोकसारे
विक्खंभ । विष्कंभवर्गो दशगुणितः करणिर्मूलग्रहणयोग्यराशिभवे. दिति समानछेदेन मेलयेत् +१=१९ एवं सति वृत्तस्य सूक्ष्मपरिधिर्भवति । विष्कंभचतुर्थांशे है परािधना ११ गुणिते वेधेन गुणिते च १४ समस्तसूक्ष्मक्षेत्रफलं भवेत् । एतत् सूक्ष्मक्षेत्रफलं व्यवहारयोजनादिक कर्तव्यं । कथं । एकप्रमाणयोजनक्षेत्रस्य पंचशतव्यवहारयोजने सति ५०० एतावत् प्रमाणयोजनक्षेत्रस्य ३४ किमिति संपात्य प्र १ फ ५०० इ ३४ घनराशेः गुणकारभागहारा घनात्मका भवंति । पुनरंगुलयवतिललिक्षाकर्मभूमिजरोमजघन्यभोगभूमिजरोममध्यमभोगभूमिजरामउत्तमभोगभूमिजरोमाण्येवमेव क्रमेण त्रैराशिकं कृत्वा गुणयेत् । विष्कंभस्य वासनां निरूपयति । एकयोजनवृत्तक्षेत्रं तत्प्रमाणेन चतुरस्रं कृत्वा भुजकोट्योः कृत्याः परस्परं गुणयित्वा 'विवि १ विवि १ समासे विवि २ कर्णकृतिः तस्यामधितायां द्वितीयांशः, तस्मिन्नर्धिते चतुर्थाशः, तस्मिन्नर्धिते अष्टमांशं खंडं, तत्रैकखंड गृहीत्वा भुजकोटयोः द्वाभ्यां समानछेदेन मेलनं कृत्वा एकखंडस्य एतावति फले अष्टखंडस्य किं । वर्गराशेर्गुणकारभागहारौ वर्गात्मकौ भवत इति न्यायेन इच्छांकः वर्गरूपेण गुणकारो भवति । तयोर्गुणकारभागहारयोर्वज्राववर्तने दशगुणिते विष्कंभवासना भवति ॥९६॥
अथ सिद्धांकमुच्चारयति;एक्कट्ठी पण्णट्ठी उणवीसट्ठारसहिं संगुणिदा। बिगुणणवमुण्णसहिया पल्लस्स दु रोमपरिसंखा ९७
एकाष्टी पंचषष्ठी एकोनविंशाष्टादशैः संगुणिता ।
द्विगुणनवशून्यसहिता पल्यस्य तु रोमपरिसंख्या ॥ ९७ ॥ एक्कट्ठी। १८४४६७४४०७३७०९५५१६१६ इत्यादि सुगमं ॥९॥ गुणितफलं दर्शयति;