SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे व्यतिक्रमत इति हेतुर्भणितस्तस्मात् स्थानं केवलज्ञानस्य चतुनिवर्गशलाकाप्रमाणं स्यात् ॥ ९ ॥ अथोक्तानां धाराणां निगमनमाह;ववहारुवजोग्गाणं धाराणं दरिसिदं दिसामेत्तं । वित्थरदो वित्थररुइसिस्सा जाणंतु परियम्मे ॥९॥ व्यवहारोपयोग्यानां धाराणां दर्शितं दिशामात्रम् । विस्तरतो विस्तररुचिशिष्या जानंतु परिकमणि ॥ ९१ ॥ ववहारु । व्यवहारोपयोग्यानां धाराणां दिग्मात्रं दर्शितं, विस्तरतो विस्तररुचिशिष्या बृहद्धारापरिकणि जानंतु ॥ ९१ ॥ . इति संख्याप्रमाणं समाप्तम्। अथ संख्याप्रमाणविशेषाश्चतुर्दश धाराः सप्रपंचं प्रदर्वेदानी प्रकृतमुपमाप्रमाणाष्टं निरूपयति; पल्लो सायर सूई पदरो य घणंगुलो य जगसेढी । लोयपदरो य लोगो उवमपमा एवमट्ठविहा॥१२॥ पल्यं सागरः सूची प्रतरं च घनांगुलं च जगच्छ्रेणी । ___ लोकप्रतरश्च लोकः उपमाप्रमा एवमष्टविधा ॥ ९२ ॥ पल्ले । पल्यं सागरः सूच्यंगुलं प्रतरांगुलं घनांगुलं च जगच्छ्रेणिः जगत्पतरश्च घनलोक इत्येवमुपमाप्रमाणमष्टविधं स्यात् ॥ ९२ ॥ अथ तेषां मध्ये पल्यभेदं स्वस्वविषयनिर्देशपूर्वकमाह;ववहारुद्धारद्धापल्ला तिण्णेव होंति णायव्वा । संखा दीवसमुद्दा कम्मढिदि वण्णिदा जेहिं ॥१३॥ व्यवहारोद्धाराद्धापल्यानि त्रीण्येव भवंति ज्ञातव्यानि । संख्या द्वीपसमुद्राः कर्मस्थितयो वर्णिता यैः ॥१३॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy