________________
त्रिलोकसारे
वग्गसलाग पहुदी णिगोदजीवाण कायवरसंखा | वग्गसलागादितयं णिगोदकायद्विदी होदि ॥ ८६ ॥
३८
वर्गशलाकाप्रभूति निगोदजीवानां कायवरसंख्या । वर्गशलाकादित्रयं निगोदकायस्थितिर्भवति ॥ ८६ ॥
वग्ग । ततोऽसंख्यातस्थानानि गत्वा वर्गशलाकास्ततोऽसंख्यातस्थानानि गत्वार्धच्छेदास्ततोऽसंख्यातस्थानानि गत्वा प्रथममूलं तस्मिन्नेकवारं वर्गित निगोदजीवानां सर्वशरीराणामुत्कृष्ट संख्योत्पद्यते । नियतानामनंतसंख्याव - च्छिन्नानां जीवानां गां क्षेत्रं ददाति इति निगोदं कर्म तद्युक्ता जीवा निगोदजीवा इत्युच्यते । ततोऽसंख्यातस्थानानि गत्वा वर्गशलाकास्ततोसंख्यातस्थानानि गत्वा अर्धच्छेदास्ततो संख्यातस्थानानि गत्वा प्रथममूलं तस्मिन्नेवारं वर्गिते निगोदकायस्थितिर्भवति । सा कीदृशीति चेत् । अत्र निगोदकायस्थितिरित्युक्ते तावदेकजीवस्य निगोदेषूत्कृष्टेनावस्थानकालो न गृह्यते तस्यार्धतृतीयपुद्गलपरिवृत्तत्वात् । तहिं किं गृह्यते ? निगोदशरीररूपेण परिणतपुद्गलानां तदाकारमत्यक्त्वोत्कृष्टे नाव स्थानकालो गृह्यते ॥ ८६ ॥ तत्तो असंखलोगं कदिठाणं चडिय वग्गसलतिदयं । दिस्संति सव्वजेद्वा जोगस्सविभागपडिछेदा ॥ ८७ ॥
ततो असंख्यलोकं कृतिस्थानं चटित्वा वर्गशलात्रितयम् । दृश्यंते सर्वज्येष्ठा योगस्याविभागप्रतिच्छेदाः ॥ ८७ ॥
तत्तो । तत उपर्यसंख्यातलोकमात्रकृतिस्थानानि चटित्वा वर्गशलाकास्ततोसंख्यातलोकमात्रकृतिस्थानानि गत्वार्धच्छेदास्ततोसंख्यात लोकमात्रकृतिस्थानानि चटित्वा प्रथममूलं तस्मिन्नेकवारं वर्गिते सर्वज्येष्ठयोगोत्कृष्टाविभागप्रतिच्छेदा दृश्यंते । कर्माकर्षणशक्तिर्योगस्तस्याविभागप्रतिच्छेदाः कर्माकर्षणशक्त्यविभागांशा इत्यर्थः ॥ ८७ ॥