SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः । तेउ | तेजस्कायिकजीवराशेः संख्या उत्पयते । सा पुनराहुटुवारशला-कानिष्ठापने यो राशिरुत्पद्यते तत्प्रमाणमित्यवसेयं अस्य वर्गशलाकायाः अधी गुणकारशलाका तिष्ठतीति । कथमिति चेत्, अंकसंदृष्टौ प्रदर्श्यते । बादाले अन्योन्यं गुणिते एक्कट्ठमुत्पयते १८ - अस्य गुणकारशलाका एका वर्गशलाका पुनः षट् ततस्तेजस्कायिकवर्गशलाकाया अधो गुणकारशकाला तिष्ठतीत्यवसेयं । ततोऽसंख्यातस्थानानि गत्वा वर्गशलाकास्ततोऽसंख्यातस्थानानि गत्वा अर्धच्छेदास्ततोऽसंख्यातस्थानानि गत्वा प्रथममूलं, तस्मिन्नेकवारं वर्गिते कायस्थितिप्रमाणमुत्पद्यते । तत्कीदृगिति चेत् । अन्यकायादागत्य तेजस्कायिकेषूत्पन्न जीवस्योत्कृष्टेन तेजस्कायिकमत्यक्त्वा अवस्थान काल इति प्ररूपयामः । ततोऽसंख्यातस्थानानि गत्वा वर्गशलाकास्ततोऽसंख्यातस्थानानि गत्वार्धछेदास्ततोऽसंख्यातस्थानानि गत्वा प्रथममूलं, तस्मिन्नेकवारं वर्गित सर्वावधिनिबद्धमुत्कृष्टक्षेत्रमात्रमुत्पद्यते । क्षेत्रस्य लोकमात्रत्वेपि शक्त्यपेक्षयोक्तत्वात् घटते ॥ ८४ ॥ ३७ वग्गसलामचिदयं तत्तो ठिदिबंधपञ्चयद्वाणा । वग्गसलादीरसंबंधज्झवसाणाण ठाणाणि ॥ ८५ ॥ वर्गशलाकात्रितयं ततः स्थितिबंधप्रत्ययस्थानानि । वर्गशलादिरसबंधाध्यवसानानां स्थानानि ॥ ८५ ॥ वग्गसला । ततोऽसंख्यातस्थानानि गत्वा वर्गशलाकास्ततोऽसंख्यातस्थानानि गत्वार्धच्छेदास्ततोऽसंख्यातस्थानानि गत्वा प्रथममूलं तस्मिन एकवारं वर्गिते ज्ञानावरणादिकर्मणां स्थितिबंधकारणकषायपरिणामस्थाना - न्युत्पद्यते । तत्परिणामसंख्या इत्यर्थः । ततोऽसंख्यातस्थानानि गत्वा वर्ग-शलाकास्ततोसंख्यातस्थानानि गत्वा अर्द्धच्छेदास्ततोऽसंख्यातस्थानानि गत्वा प्रथममूलं तस्मिन्नेकवारं वर्गिते ज्ञानावरणादिकर्मणां तीवादिशक्ति लक्षणरसबंधकारणकषायपरिणामस्थानानि उत्पद्यते ॥ ८५ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy