________________
त्रिलोकसारे
तं जाण विरूवगयं घणाघणं अट्ठबिंदतव्वग्गं । लोगो गुणगारसला वग्गसलद्धच्छदादिपदं ॥ ८३॥ तं जानीहि द्विरूपगतं घनाघनं अष्टवृंदतद्वर्गम् ।
लोको गुणकारशला वर्गशलार्धच्छेदादिपदम् ॥ ८३ ॥ तं जाण । द्विरूपवर्गधारायां यो यो राशिः तस्य तस्य घनाघन एवात्र धारायामित्यमुं क्रमं जानीहि । कथं चरतीति चेत् । आदिरष्टघनः ५१२ तदुपरि अष्टधनवर्गः २६२१४४ तदुपरि असंख्यातस्थानानि गत्वा लोक उत्पद्यते । अस्य वर्गशलाकादिरवापतितत्वादनुक्त इत्यवसेयः । ततोसंख्यातस्थानानि गत्वा गुणकारशलाकाराशिरुत्पद्यते। स क इति चेत्, लोकं विरलयित्वा लोकमेव दत्त्वा समस्तराशीनन्योन्यं गुणयित्वा एकवारं गुणितमिति लोकमात्रशलाकाराशितो रूपमपनयेत् । अत्र गुणकारशलाका रूपोनलोकमात्रा भवंति ।तं पुनरसंख्यातलोकमानं अन्योन्यगुणितराशिमेव विरलयित्वा तमेव दत्त्वा अन्योन्यं गुणितमिति प्राक्तनशलाकाराशितः अपरं रूपमपनयेत्; तत्र च गुणकारशलाका रूपोनासंख्यातलोकमात्रा भवंति । एवं यावच्छलाकाराशिसमाप्तिस्तावद्गुणकारशलाका वर्धते। एवं सत्येकवारशलाकानिष्ठापनं स्यात् । एवमाहुटुवार शलाकानिष्ठांपने कृते यावंत्यो गुणकारशलाकास्तावंत्योत्र गुणकारशलाका इत्युच्यते । ततोऽसंख्यातस्थानानि गत्वा वर्गशलाकास्ततोऽसंख्यातस्थानानि गत्वा अर्धच्छेदास्ततोऽसंख्यातस्थानानि गत्वा प्रथममूलं तस्मिन्नेकवारं वर्गिते- ॥८३ ॥ तेउकाइयजीवा वग्गसलागत्तयं च कायठिदी। वग्गसलादित्तिदयं ओहिणिबद्धं वरं खेत्तं ॥ ८४ ॥
तेजस्कायिकजीवा वर्गशलाकात्रयं च कायस्थितिः । __ वर्गशलादित्रितयं अवधिनिबद्धं वरं क्षेत्रम् ॥ ८४ ॥