________________
त्रिलोकसारे
पल्लवणं बिंदंगुलजगसेढीलोय पदरजीवघणं । ततो पढमं मूलं सव्वागासं च जाणेज्जो ॥ ७८ ॥ पल्यगनं वृंदांगुलजगच्छ्रेणीलोकप्रतरजीवघनम् । ततः प्रथमं मूलं सर्वाकाशं च जानीहि ॥ ७८ ॥
२४
पल्ल । ततोऽसंख्यातस्थानानि गत्वा वर्गशलाका, ततो संख्यातस्थानानि गत्वा अर्धच्छेदाः, ततोसंख्यातस्थानानि गत्वा प्रथममूलं तस्मिन्नेकवारं वर्गिते पल्यधनमुत्पद्यते । ततोसंख्यातस्थानानि गत्वा घनांगुलमुत्पद्यते अत्र उप्पज्जदि जो रासीत्यादिना निषिद्धत्वात् वर्गशलाकादीनामभावः । ततोऽसंख्यातस्थानानि गत्वा जगच्छ्रेणिरुत्पद्यते, अत्रापि उप्पज्जदीति निषिद्धत्वात् वर्गशलाकादीनामभावः । तस्यामेकवारं वर्गितायां जगत्प्रतर उत्पद्यते । ततोनंतस्थानानि गत्वा वर्गशलाका, ततोनंतस्थानानि गत्वा अर्धच्छेदाः, ततोनंतस्थानानि गत्वा प्रथममूलं तस्मिन्नेकवारं वर्गिते जीवराशेर्धन उत्पयते । उपज्जदीति निषिद्धत्वात्र वर्गशलाकादीनां सद्भावः । ततोनंतस्थानानि गत्वा प्रथममूलं तस्मिम्नेकवारं वर्गिते सर्वाकाशं च जानीहि ॥ ७८ ॥
संखम संखमणंतं वग्गद्वाणं कमेण गंतूण | संखासंखाणंताणुप्पत्ती होदि सव्वत्थ ॥ ७९ ॥ संख्यमसंख्यमनंतं वर्गस्थानं क्रमेण गत्वा । संख्यासंख्यानतानामुत्पत्तिः भवति सर्वत्र ॥ ७९ ॥
संखम - द्विकवारा संख्यातजघन्यपर्यंतं संख्यातवर्गस्थानानि गत्वा तदुपरि द्विकवारानंत जधन्यपर्यंतमसंख्यातवर्गस्थानानि गत्वा तदुपरि केवलज्ञानपर्यंतमनंतवर्गस्थानानि गत्वा तत्र तत्र वर्गधारायां यथासंख्यं संख्यातासंख्यातानतानां राशीनामुत्पत्तिर्भवति सर्वत्र ॥ ७९ ॥