________________
लोकसामान्याधिकारः। वग्ग । वर्गशलाका रूपाधिकाः स्वस्थाने स्वकीयधारायां परस्मिन् स्थाने परधारायां स्वसमानाः स्वस्वर्गशलाकामानं विकं परस्पराहतं चेत् राशेरर्धच्छेदा भवंति । इयं व्याप्ति िरूपवर्गधारायामेव न द्विरूपघनाद्वरूपघनाघनधारयोः तदर्धच्छेदमात्रे द्विके परस्परगुणिते सति राशिर्भवति । इयं व्याप्तिर्धारात्रयेपि ॥ ७५ ॥
अथ वर्गशलाकार्धच्छेदयोः स्वरूपमाह;वग्गिवारा वग्गसलागा रासिस्स अद्धछेदस्स ।। अद्धिवारा वा खलु दलवारा हॉति अद्धछिदी ७६ वर्गितवारा वर्गशलाका राशेः अर्द्धच्छेदस्य ।
अर्धितवारा वा खलु दलवारा भवंति अर्धच्छेदाः ॥ ७६ ॥ वग्गिद । राशेर्वर्गितवारा वर्गशलाका, इयं व्याप्तिरपि धारात्रये । अर्धच्छेदस्य अर्धितवारा वर्गशलाकाः, इयं व्याप्तिः द्विरूपवर्गधारायामेव । राशेर्दलवारा अर्द्धच्छेदा भवंति, इयं व्याप्तिरपि धारात्रये ॥ ७६ ॥ • अथ गाथाषट्रेन द्विरूपघनधारामाह;बेरूवबिंदधारा अड चउसट्ठी चडित्तु संखपदे। आवलिघनमावलिया कदिबिंदं चापि जायेज्ज ॥७७ द्विरूपवृंदधारा अष्ट चतुःषष्टिः चटित्वा संख्यपदानि ।
आवलिघन आवल्याः कृतिवृंदं चापि जायेत ॥ ७७ ॥ बेरूव । द्विरूपवर्गधाराराशीनां ये घनास्तेषां धाराः अष्ट चतुःषष्टिः । एवं पूर्वपूर्ववर्गरूपेण ४०९६ संख्यातस्थानानि गत्वा जघन्यपरीतासंख्यातघनः ततो विरलितराश्यर्द्धच्छेदमात्रगत्योत्पन्नत्वात् । संख्यातस्थानानि चटित्वा आवलि २ घन ८ उत्पद्यते । तस्मिन्नेकवारं वर्गिते आवल्या कृतिघनश्चापि जायेत ॥ ७७॥