________________
लोकसामान्याधिकारः ।
३१
धम्माधम्म । ततोनंतस्थानानि गत्वा धर्माधर्मागुरुलघुगुणाविभागप्रतिच्छेदाः, ततोनंतस्थानानि गत्वा एकजीवागुरुलघुगुणा विभागप्रतिच्छेदा भवति, ततोनंतस्थानानि गत्वा सूक्ष्मनिगोदलब्ध्यपर्याप्तक जघन्यज्ञानाविभाप्रतिच्छेदा उत्पद्यंते ॥ ७० ॥
अवरा खाइयलद्धी वग्गसलागा तदो सगद्धछिदी । अड़सगछप्पणतुरियं तदियं बिढ़ियादि मूलं च ॥७१ अवरा क्षायिकलब्धिः वर्गशलाका ततः स्वकार्धच्छिदिः । अष्टसप्तषट्पंचतुरीयं तृतीयं द्वितीयादिमूलं च ॥ ७१ ॥
अवरा । ततोनंतस्थानानि गत्वा तिर्यग्गत्यसंयतसम्यग्दृष्टौ जघन्यक्षायिक सम्यक्त्वरूपलब्धेरविभागप्रतिच्छेदाः, ततोनंतस्थानानि गत्वा वर्गशलाकाः, ततोनंतस्थानानि गत्वा अर्धच्छेदाः, ततोनंतस्थानानि गत्वा अष्टममूलं, तस्मिनेकवारं वर्गिते सप्तमसूलं, तस्मिन्नेकवारं वर्गिते षष्ठमूलं, तस्मिनेकवारं वर्गित पंचममूलं, तस्मिन्नेकवारं वर्गिते चतुर्थमूलं, तस्मिन्नेकवारं वर्गिते तृतीयमूलं, तस्मिन्नेकवारं वर्गिते द्वितीयमूलं, तस्मिन्नेकवारं वर्गिते प्रथममूलं चोत्पते ॥ ७१ ॥
सइमादिमूलवग्गे. केवलमंतं पमाणजेट्ठमिणं । वरखेइयलद्धिणामं सगवग्गसला हवे ठाणं ॥ ७२ ॥
सकृदादिमूलबर्गे केवलमंतं प्रमाणजेष्ठमिदम् ।
वरक्षायिकलब्धिनाम स्वकवर्गशला भवेत् स्थानम् ॥ ७२ ॥
2
खइ । सकृदेकवारं तस्यादिमूलस्य वर्गे गृहीते केवलज्ञानस्याविभागप्रति - च्छेदाः । एतावदेव द्विरूपवर्गधारायामंत, इदमेव प्रमाणज्यष्ठं एतदेवोत्कृष्ट, क्षायिकलब्धिनाम । अस्या द्विरूपवर्गधारायाः स्थानं तस्य केवलशानस्य वर्गशलाकाप्रमाणं भवेत् ॥ ७२ ॥