________________
त्रिलोकसारे
तपल्ल" इत्यादिना विरलनदेयरूपेणोत्पन्नत्वात् । तस्मिन्नेकवारं वर्गिते प्रतरांगुलमुत्पद्यते । ततः असंख्यातस्थानानि गत्वा जगच्छ्रोणिघनमूलमुत्पद्यते ॥ ६८॥ तिविह जहण्णाणंतं वग्गसलादलछिदी सगादिपदं। जीवो पोग्गल काला सेढीआगास तप्पदरम् ॥६९॥ त्रिविधं जघन्यानंतं वर्गशलादलच्छेदाः स्वकादिपदम् ।
जीवः पुद्गलः कालः श्रेण्याकाशं तत्प्रतरम् ॥ ६९॥ तिविह । ततोऽसंख्यातस्थानानि गत्वा वर्गशलाकाः, ततोऽसंख्यातस्थानानि गत्वा अर्धच्छेदाः, ततोऽसंख्यातस्थानानि गत्वा प्रथममूलं, तस्मिनेकवारं वर्गिते परिमितानंतस्य जघन्यमुत्पद्यते । तस्मिन् राशौ विरलनदेयक्रमे कृते विरलितराश्यर्धच्छेदमात्राणि वर्गस्थानानि गत्वोत्पन्नत्वात्तदर्धच्छेदस्यासंख्यातरूपत्वादसंख्यातस्थानानि गत्वा युक्तानंतस्य जघन्यमेवोत्पद्यते। तत्र प्राग्वद्वर्गशलाकादीनां निषिद्धत्वात् । तस्मिन्नेकवारं वर्गिते द्विकवारानंतस्य जघन्यमुत्पद्यते, ततोऽनंतस्थानानि गत्वा वर्गशलाकाः, ततोऽनंतस्थानानि गत्वा अर्धच्छेदाः, ततोनंतस्थानानि गत्वा स्वप्रथममूलं, तस्मिन्नेकवारं वर्गिते जीवराशिरुत्पद्यते । अत्र वर्गशलाकादीनामुपलक्षणेनोक्तत्वादुत्तरत्र राशावपि ते वर्गशलाकादयोऽवगंतव्याः, ततोऽनंतस्थानानि गत्वा पुद्गलराशिरुत्पद्यते, ततोऽनंतस्थानानि गत्वा कालसमयराशिरुत्पद्यते, ततोऽनंतस्थानानि गत्वा श्रेण्याकाशमुत्पद्यते, तस्मिन्नेकवारं वर्गिते प्रतराकाशमुत्पद्यते ॥ ६९॥
धम्माधम्मागुरुलघु इगिजीवागुरुलघुस्स होंति तदो। सुहमणिअपुण्णणाणे अवरे अविभागपडिछेदा॥७॥
धर्माधर्मागुरुलघोरेकजीवागुरुलघोः भवति ततः । सक्ष्मनिगोदापूर्णज्ञाने अवरे अविभागप्रतिच्छेदाः ॥ ७० ॥