________________
लोकसामान्याधिकारः। तो संखठाणगमणे वग्गसलागद्धछेदपढमपदं । अवरपरित्तासंखं आवलि पदरावली य हवे ॥६७॥ ततः संख्यस्थानगमने वर्गशलाकार्धच्छेदप्रथमपदम् ।
अवरपरीतासंख्यं आवलिः प्रतरावली च भवेत् ॥ ६७ ॥ तो संखठाण । ततः संख्यातस्थानानि गत्वा वर्गशलाकाराशिरुत्पद्यते। ततः संख्यातस्थानानि गत्वा अर्धच्छेदराशिरुत्पयते । ततः संख्यातस्थानानि गत्वा प्रथममूलमुत्पद्यते । तस्मिन्नेकवारं वर्गिते जघन्यपरीतासंख्यातराशिरुत्पयते । ततः “ उप्पज्जदि जो रासी विरालिददिज्जक्कमेण" इत्यादिना वर्गशलाकादेनिषिद्धत्वात् संख्यातस्थानानि गत्वा आवलिरेवोत्पद्यते । तत्संख्यातस्थानज्ञानं कथमितिचेत् । देयराशेरुपरि विरलितराश्यर्धच्छेदमात्राणि वर्गस्थानानि गत्वा विवक्षितराशिरुत्पद्यते इति ज्ञातव्यं । तस्यामावल्यामेकवारं वर्गितायां प्रतरावलिर्भवेत् ॥ ६७॥
गमिय असंखं ठाणं वग्गसलद्धच्छिदी य पढमपदं । . पल्लं च सूइअंगुल पदरं जगसेढिघणमूलं ॥ ६८॥
गत्वा असंख्यं स्थानं वर्गशलार्द्धच्छिदिश्च प्रथमपदम् ।
पल्यं च सूच्यंगुलं प्रतरं जगच्छ्रेणिघनमूलम् ॥ ६८ ॥ गमिय । ततः असंख्यातस्थानानि गत्वा वर्गशलाकाराशिः ततोऽसंख्यातस्थानानि गत्वा अर्धच्छेदः। ततोऽसंख्यातस्थानानि गत्वा प्रथममूलं तस्मिन्नेकवारं. वर्गिते अद्धापल्यमुत्पद्यते । ततः विरलितराश्यर्धच्छेदमात्राणि वर्गस्थानानि गत्वोत्पन्नत्वात्तदर्धच्छेदस्यासंख्यातरूपत्वादसंख्यातस्थानानि गत्वा सूच्यंगुलमुत्पद्यते । अत्र वर्गशलाकादीनामनुत्पत्तिः कथमिति चेत् । विरलनदेयक्रमणोत्पन्नस्य राशेः “ उप्पज्जदि जो रासी" इत्यादिना धारात्रये वर्गशलाकादीनां निषिद्धत्वात् अस्यापि सूच्यंगुलस्य “पल्लछिदिमे