________________
३९४
त्रिलोकसारे
उक्तानां जिनभवनानां परिकरं गाथासप्तकेनाह;चउगोउरमणिसालति वीहिं पडि माणथंम णवथूहा । वणधयचेदियभूमी जिणभवणाणं च सब्वेसिं ॥ ९८३ ॥
चतुर्गोपुरमणिशालत्रयं वीथीं प्रति मानस्तंभा नवस्तूपाः । वनध्वजाचैत्यभूमयः जिनभवनानां च सर्वेषां ॥ ९८३ ॥
चड । सर्वेषां जिनभवनानां चतुर्गोपुरयुक्तमणिमयशालत्रयं प्रतिवीथ्येकैकमानस्तंभाः । नव नव स्तूपाश्च भवंति । तच्छालत्रयांतराले बाह्यादारभ्य क्रमेण वनध्वजचैत्यभूमयो भवति ॥ ९८३ ॥ जिणभवणे अट्ठसया गब्भगिहा रयणथंभवं तत्थ । देवच्छंदो हेमो दुगअडचउवासदीहुदओ ॥ ९८४ ॥ जिनभवनेषु अष्टशतानि गर्भगृहाणि रत्नस्तंभवान् तत्र । देवच्छंदो हैमः द्विकाष्टचतुर्व्यास दीर्घोदयः ॥ ९८४ ॥
जिण । तेषु जिनभवनेष्यष्टोत्तरशतप्रमितानि गर्भगृहाणि संति । तत्र जिनभवनमध्ये रत्नस्तंभवान् हेपमयद्विकाष्टचतुर्योजनव्या सदीर्घादयो देवच्छंदास्ति ॥ ९८४ ॥ सिंहासणादिसहिया विणीलकुंतल सुवज्जमयदंता । विद्दुमअहरा किसलयसोहायरहत्थपायतला ॥ ९८५ ॥ सिंहासनादिसहिता विनीलकुंतलाः सुवज्रमयदंताः ।
विदुमाधराः किसलयशोभाकरहस्तपादतलाः ।। ९८१ ॥ सिंहासणादि । सिंहासनादिसहिता विनीलकुंतलाः सुवज्रमयताः विद्रुमाधराः किसलयशोभाकर हस्तपादतलाः ॥ ९८५ ।। दसतालमाणलक्खणभरिया पेक्खंत इव वदंता वा । पुरुजिणतुंगा पडिमा रयणमया अट्ठअहियसया ॥ ९८६ ॥