SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ नर तिर्यग्लोकाधिकारः । ३९३ बर । उत्कृष्टमध्यम जघन्य चैत्यालयानां व्यासादिक मर्धार्धक्रमं जानीहि । भद्रशालनंदननंदीश्वर विमानगत जिनालया ज्येष्ठाः खलु भवति ॥ ९७९ ॥ सोमणसरुजगकुंडलवक्खारिसुगार माणुसुत्तरगा । कुलगिरिगा वि य मज्झिम जिणालया पांडुगा अवरा सौमनसरुचककुंडलवक्षारेष्वाकारमानुषोत्तरगाः । कुलगिरिगा अपि च मध्यमा जिनालया पांडुगा अवराः ॥ ९८० ॥ सोमण | सौमनसरुचक कुंडलवक्षारेष्वाकारमानुषोत्तरगाः कुलगिरिगता अपि च जिनालयाः मध्यमाः पांडुकवनगता जघन्याः || ९८० ॥ तदनंतरं ज्येष्ठजिनालयानामायामागाढद्वारोत्सेधानाह; - जोयणस्य आयामं दलगाढं सोलसं तु दारुदयं । जेद्वाणं गिहपासे आणिद्दाराणि दो दो दु ॥ ९८१ ॥ योजनशतमायामः दलावगाढः षोडश तु द्वारोदयः । ज्येष्ठानां गृहपार्श्वे आणुद्वारे द्वे द्वे तु ॥ ९८९ ॥ जोयण । ज्येष्ठजिनालयानामायामो योजनशतं अर्धयोजनावगाढः षोडशयोजनानि तद्द्वारोदयः तज्जिनगृहपार्श्वे द्वे द्वे क्षुल्लकद्वारे भवतः ॥ ९८१ उत्कृष्टादिविशेषणविरहितानां वसतीनामायामः कियानित्युक्ते आह;वेयडूजंबुसामलिजिणभवणाणं तु कोस आयामं । सेसाणं सगजोगं आयामं होदि जिणदिट्ठ ॥ ९८२ ॥ 'विजयार्ध जंबू शाल्मलिजिनभवनानां तु क्रोश आयामः । शेषाणां स्वकयोग्यः आयामो भवति जिनदृष्टः ॥ ९८२ ॥ वेयड्ड । विजयार्धगिरौ जंबुवृक्षे शाल्मलीवृक्षे च जिनभवनानामायामः एकक्रोशः शेषाणां भवनादिजिनालयानां स्वयोग्यायामो जिनैर्दृष्टः ॥ ९८२॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy