________________
लोकसामान्याधिकारः ।
एकं चत्वार्यादिः केवलांता कृतिः पदं तत्पदं कृतिः अवरं । एकहीनतत्पदकृतिः अधस्तनमुत्कृष्टं सर्वत्र ॥ ५८ ॥
२५
इगि चादि । एकं चत्वार्यादिः केवलज्ञानांता कृतिधारा स्यात् । पदं कृतिधारास्थानं तत्पदं केवलज्ञानस्य प्रथममूलमात्रं संख्यातादीनां जघन्यं कृत्यात्मकमेव एकहीनस्यासंख्यातादीनां प्रथममूलस्य कृतिरेव सर्वत्राधस्तनाधस्तनोत्कृष्टप्रमाणं भवति । अंकसंदृष्टौ १, ४, ९, के १६ ॥ ५८ ॥ अथाकृतिधारोच्यते ;-- दुप्पहुदिरूववज्जिद केवलणाणावसाणमकदीए । सेसविही विसमं वा सपदूणं केवलं ठाणं ॥ ५९ ॥ द्विप्रभृति रूपवर्जितकेवलज्ञानावसानमकृतौ ।
शेषविधिः विषमा वा स्वपदानं केवलं स्थानम् ॥ ५९ ॥
दुप्पहु । द्विप्रभृतिः रूपवर्जितकेवलज्ञानमवसानं अकृतिधारायां शेषविधि: संख्यातादीनां जघन्यमुत्कृष्टं च विषमधारावत् " रूवजुदमवरमवरं वरं वरं होदि सव्वत्थ ” इति ज्ञातव्यमित्यर्थः । कृतिस्थानरहित्वात् स्वप्रथममूलोनं केवलज्ञानं स्थानं स्यात् । अंकसंदृष्टौ २,३,५,६,७,८,१०,११, १२,१३,१४, के १५ ॥ ५९ ॥ अथ घनघारा कथ्यते ;
इगिअडपहुर्दि केवलदलमूलस्सुवरि चडिठाणजुदे । तग्घणमंतं बिंदे ठाणं आसण्णघणमूलम् ॥ ६० ॥ एकाष्टप्रभृतिं केवलदलमूलस्योपरि चटितस्थानयुते । तद्धनमंतं वृंदे स्थानं आसन्नघनमूलम् || ६०
इग | अंकसंदृष्टौ प्रदर्श्यते । एकाष्टप्रभृतिं १, ८, २७, एवमनंतानि घनस्थानानि गत्वा केवल ६५ - दलस्य घनरूपस्य ३२७६८ यन्मूलं तस्मि