________________
त्रिलोकसारे
३२ तदुपरि घनमूलस्योपरि चटितस्थानानां उपर्युपरिगतघनमूल स्थानानां ३३, ३४, ३५, ३६, ३७, ३८, ३९, ४०, संख्याने युते सति तस्य ४० घनो अंतो भवति ६४००० । तस्येति कथम् ? यस्मादासन्नघनमूला ४० द्रूपाधिकस्य घनमूलस्य ४१ घने गृहीते ६८९२९ केवलज्ञानं व्यतिक्रम्य राशिरुत्पद्यते तस्मात्तस्यैव ४० घनः ६४००० घनधारायामंतो भवति । स एवासन्नघन इत्युच्यते तन्मूलमेव चासन्नघनमूलमिति कथ्यते । स्थानं केवलज्ञानस्यासन्नघनमूलप्रमाणं स्यात् ॥ ६० ॥
अथ केवलदलस्य घनात्मकत्वे उपपत्तिं पूर्वार्धेन दर्शयन्नुत्तरार्धेनाघनधारामाह;--
समकदिसल विक दलिदे वणमेत्थः विसमगे तुरिए । अघणस्स दु सव्वं वा विघणपदं केवलं ठाणं ॥ ६१ ॥
समकृतिशला विकृतौ दलिते घनः अत्र विषमके तुरिये ।
अघनस्य तु सर्वं वा विघनपदं केवलं स्थानम् ॥ ६१ ॥
समक। द्विरूपवर्गधारायां समकृतिशलाके वर्गराशौ दलिते घनो जायते । यथा षोडशकादिके १६ / ६५ = | १८ | अत्रैव धारायां विषमकृतिशलाके वर्गराशौ चतुर्भागे गृहीते घनो जायते । यथा चतुष्कादिके । ४।२५६।४२=। एवमुकन्यायेन केवलज्ञानस्य वर्गशलाकानां समत्वात्तस्मिन् केवलज्ञाने दलिते घनो भवतीति सिद्धम् । तत्समत्वं कथं ज्ञायत इति चेदिदमुच्यते । केवलज्ञानस्य वर्गशलाकाराशेर्द्विरूपवर्गधारायामेवोत्पन्नत्वात् । एतदपि कुत इति चेत् "अवरा खाइयलद्धी वग्गसलागा तदो सगद्धछिदी " इति पुरस्ताद् वक्ष्यमाणत्वात् । अघनधारायाः सर्वधारावत् प्रक्रिया । अयं तु विशेषः, विघनपदं घनस्थानरहितसर्वधारावदिति ग्राह्यं । अस्याः स्थानप्रमाणं “ काकाक्षगोलकन्यायेन ” विषनपदं केवलं धनस्थानन्यूनकेवलज्ञानमात्रं स्यात् । अंकसंदृष्टौ २, ३, ४, ५, ६, ७, ९, १०, ११, १२, १३, १४, १५, १६ ॥ ६१ ॥