________________
त्रिलोकसारे
द्वयादि द्वयुत्तरिका केवलपर्यंतका समा धारा ।
सर्वत्र अवरमवरं रूपोनोत्कृष्टं उत्कृष्टम् ॥ ५५ ॥ बेयादि । व्यादिका ट्युत्तरा केवलज्ञानपर्यंता समधारा प्रोक्ता सर्वत्र संख्यातादिषु समधारास्थितजघन्यमेवात्र जघन्यं । सर्वधारागतरूपन्यूनोत्कृष्टमत्रोत्कृष्टं स्यात् । अंकसंदृष्टौ २,४,६,८,१०,१२,१४, के १६॥५५॥
एगादि बिउत्तरिया विसमा रूऊणकेवलवसाणा। रूवजुदमवरमवरं वरं वरं होदि सव्वत्थ ॥ ५६ ॥
एकादि व्युत्तरा विषमा रूपोनकेवलावसाना । रूपयुतमवरमवरं वरं वरं भवति सर्वत्र ॥ १६ ॥ एगा । एकादिका ट्युत्तरा विषमधारा रूपन्यूनकेवलावसाना । सर्वधारागतसंख्यातादीनां जघन्यं रूपयुतं चेत् विषमधारायामवरं स्यात् तत्रोत्कृष्टमत्र सर्वत्रोत्कृष्टं स्यात् । अंकसंदृष्टौ १, ३, ५, ७, ९, ११, १३, के १५ ॥५६॥
अथ समविषमधारयोः स्थानं तद्गच्छानयनं चाह;केवलणाणस्सद्धं ठाणं समविसमधारयाण हवे । आदी अंते सुद्धे वड्डिहिदे इगिजुदे ठाणा ॥५७॥
केवलज्ञानस्यार्ध स्थानं समविषमधारयोर्भवेत् । आदौ अंते शुद्धे वृद्धिहृते एकयुते स्थानानि ॥ १७ ॥ केवल । केवलज्ञानस्यार्ध स्थानं समविषमधारयोर्भवेत् । आदौ २ अंते १६ शुद्ध सति १४ वृद्धि २ हृते ७ एकयुते च सति ८ स्थानानि भवंति। एवं चयोत्तरे सर्वत्र दृष्टव्यम् ॥ ५५ ॥
अथ कृतिधारामाह;इगिचादि केवलंतं कदी पदं तप्पदं कदी अवरं । इगिहीण तप्पदकदी हेट्ठिममुक्कस्स सव्वत्थ ॥५८॥