SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३६४ त्रिलोकसारे मागह । भरतक्षेत्रे दक्षिणतस्तारात् संख्यातयोजनानि गत्वा मागधवरतनुप्रभासाख्यामराणां त्रयाणां देवानां तत्तन्नामद्वीपत्रयमस्ति, ऐरावतोत्तरभागेपि तथा द्वीपत्रयमस्ति ।। ९१२ ॥ सांप्रतं लवणकालोदकसमुद्रातस्थितान् षण्णवतिकुमानुष्यद्दीपानाह;-- दिसिविदिसंतरगा हिमरजताचलसिहरिरजदपणिधिगया। लवणदुगे पल्लठिदी कुमणुसदीवा हु छण्णउदी९१३ दिशाविदिशांतरकाः हिमरजताचलशिखरिरजतप्रणिधिगताः । लवणद्विके पल्यस्थितयः कुमनुष्यद्वीपा हि षण्णवतिः ॥ ९१३ ॥ दिसि । लवणसमुद्रस्य दिक्षु चत्वारो ४ विदिक्षु चत्वारो ४ अंतरदिक्ष्वष्टौ ८ हिमरजतशिखरिरजतपर्वतानामुभयप्रांतप्रणिधिगतौ प्रत्येकं द्वौ द्वौ इति मिलित्वाष्टौ ८ इति सर्वेपि मिलित्वा लवणसमुद्रस्याभ्यंतरतटे चतुर्विशतिः २४ बाह्यतटेपि चतुर्विंशतिः २४ मिलित्वाष्टचत्वारिंशत् ४८। एवं कालोदकोभयतटेप्यष्टचत्वारिंशत् ४८ इति सर्वेपि मिलित्वा षण्णवतिसंख्याप्रमिताः ९६ कुमानुष्यद्वीपा: संति । तत्रस्था मनुष्याः पल्यस्थितिका भवंति ॥ ९१३॥ उभयतटात्तेषामंतरं तद्विस्तारं च क्रमेणाह;दसगुण पण्णं पण्णं पणवण्णं सद्विमुवहिमहिगम्म । सय पणवण्णं पण्णं पणुवीसं वित्थडा कमसो ॥९१४॥ दशगुणं पंचाशत् पंचाशत् पंचपंचाशत् षष्ठिरुदधिमधिगम्य । शतं पंचपंचाशत् पंचाशत् पंचविंशतिः विस्तारः क्रमशः।।९१४॥ दस । दिग्गतद्वीपा दशगुणपंचाश ५०० योजनानि गत्वा विदिग्गता दशगुणितपंचाश ५०० योजनानि गत्वा अंतरदिग्गता दशगुणितपंचपं. चाश ५५० योजनानि गत्वा गिरिप्रणिधिगताश्च दशगुणितषष्ठि ६००
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy