________________
नरतिर्यग्लोकाधिकारः।
३६३
तडतः गत्वा तावन्मात्रव्यासा हि विदिक्षु अंतरकाः । अष्टषोडश ते द्वीपा वृत्ताः सूर्याख्यचंद्राख्याः ॥ ९०९ ॥ तडदो । उभयतटात्तावन्मात्राणि योजनानि ४२००० गत्वा तावन्मा-- प्रव्यासा ४२०००: विदिश्वंतरदिक्षु च यथासंख्यं अष्ट षोडशसंख्या सूर्याख्यचंद्राख्यास्ते द्वीपाः वृत्ताः स्युः ॥ ९०९ ॥ तडदो बारसहस्तं गंतूणिह तेत्तियुदयवित्थारो। गोदमदीओ चिहदि वायव्वदिसम्हि वट्टलओ ॥९१०॥ तटतो द्वादशसहस्रं गत्वेह तावदुदयावस्तारः । गौतमद्वीपः तिष्ठति वायव्यदिारी वर्तुलः ॥ ९१० ॥ तड । इह लवणे अभ्यंतरतटात् द्वादशसहस्र १२००० योजनानि गत्वा तावन्मात्रोदयः १२००० तावन्मात्र विस्तारः १२००० वृत्ताकारो वायव्यां दिशि गोतमाख्यो दीपस्तिष्ठति ॥ ९१० ॥ बहुवण्णणपासादा वणवेदीसहिय तेसु दीवेसु । तस्सामी वेलंधरणागा सगदीवणामा ते ॥ ९११ ॥
बहुवर्णनप्रासादाः वनवेदीसहितेषु तेषु द्वीपेषु । तत्स्वामिनो बेलंधरनागाः स्वकद्वीपनामानस्ते ॥ ९११ ॥ बहु । वनैर्वेदिकाभिः सहितेषु तेषु दीपेषु सर्वेषु बहुवर्णनोपेताः प्रासादाः संति। तद्द्वीपस्वामिनो ये बेलंधरनागास्ते स्वकीयस्वकीयद्वीपनामानः॥९११॥ मागहतिदेवदीवत्तिदयं संखेज्जजोयणं गत्ता। तीरादो दक्खिणदो उत्तरभागवि होदित्ति ॥ ९१२॥ मागधत्रिदेवद्वीपत्रितयं संख्यातयोजनं गत्वा । तीरात दक्षिणतः उत्तरभागेपि भवतीति ॥९१२ ॥