SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । ३६१ वेलं | जंबूद्वीपापेक्षया लवणसमुद्रस्य बाह्ये शिखरे अभ्यंतरे च यथासंख्यं वेलंधर भुजगानां विमानानि द्वासप्ततिसहस्राणि ७२००० अष्टाविंशतिसहस्राणि २८००० द्वाचत्वारिंशत्सहस्राणि ४२००० स्युः ॥ ९०३ ॥ अथ तद्विमानानामवस्थानविशेषं तद्वयासं चाह; दुतडादो सत्तसयं दुकोसअहियं च होइ सिहरादो । णयराणिहुगयणतले जोयणदसगुणसहस्सवासाणि ९०४ द्वितात् सप्तशतं द्विकोशाधिकं च भवति शिखरात् । नगराणि हि गगनतले योजन दशगुणसहस्रव्यासांनि ॥ ९०४ ॥ दुतडा । लवणसमुद्रस्योभयतटात्सप्तशतयोजनानि ७०० तच्छिखराच्च द्विकोशाधिकानि सप्तशतयोजनानि ७०० को २ त्यक्त्वा गगनतले दशसहस्त्रयोजनव्यासानि १०००० नगराणि संति ॥ ९०४ ॥ दिग्गतपातालपाश्र्वस्थपर्वतान् तस्मिन्निवासिदेवादिकं च गाथाचतुष्टये नाह; वडवामुहपहुदीणं पासदुगे पव्वदा हु एक्केक्का । yod कत्थुमसेलो इय बिदियो कोत्थुभासो दु ॥ ९०५॥ वडवामुखप्रभृतीनां पार्श्वद्वये पर्वता हि एकैका: । पूर्वस्यां कौस्तुभशैलः इह द्वितीयः कौस्तुभामस्तु ॥ ९०९ ॥ वडवा । वडवामुखप्रभृतीनां पातालानां पार्श्वद्वये एकैकाः पर्वताः संति । तत्र पूर्वदिकस्यपातालस्य पूर्वदिशि कौस्तुभशैलः इह द्वितीयस्तु कौस्तुभासाख्यः ॥ ९०५ ॥ तहि तण्णामदुवाणा दक्खिणदो उदगउद्गवासणगा । इहसिवसिवदेवसुरा संख महासंखगिरिदु पच्छिमदो ९०६
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy