SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३३२ त्रिलोकसारे अथ चतुर्दशरत्नानां संज्ञापूर्वक मुत्पत्तिस्थानमाह ; - हथवाद रहो गयहयजुवई हवंति वेयढे । सिरिगेहे कागिणिमणिचम्माउहगेसिदंडछत्तमरो ८२३ सेनागृहस्थपतिः पुरोधा गजो हयो युवतिः भवंति विजयार्धे । श्रीगेहे काकिणीमणिचर्मायुध के असिदंडछत्रमरः || ८२३ ॥ सेणि । सेनापतिः गृहपतिः स्थपतिः पुरोधाः गजो हयो युवतिरित्येते विजयार्थे भवंति श्रीगेहे काकिणी चूडामणिश्चर्मरत्नमित्येतानि भवति । आयुधगेहे असिर्देडच्छत्रं चक्ररत्नमित्येतानि भवति ॥ ८२३ ॥ अथ तेषां गतिविशेषमाह; - मघवं सणकुमारो सणकुमारं सुभोम बम्हा य । सत्तमपुढविं पत्ता मोक्खं सेसट्टचक्कहरा || ८२४ ॥ मघवान् सनत्कुमारः सनत्कुमारं सुभौमो ब्रह्मश्च । सप्तमपृथिवीं प्राप्तौ मोक्षं शेषाष्टचक्रधराः ॥ ८२४ ॥ मधवं । मघवान् सनत्कुमारश्च सनत्कुमारं स्वर्गमापत्, सुभौमो ब्रह्मदतश्च सप्तमी पृथ्वीं प्रापत्, शेषा अष्टचक्रधरा मोक्षमापुः ॥ ८२४ ॥ सांप्रतमर्धचत्रिणां नामान्याह; - तिविद्वदुविट्ठसयंभू पुरिसुत्तमपुरिससिंहपुरिसादी | पुंडरियदत्त णारायण किण्हो अद्धचक्कहरा ॥ ८२५ ॥ त्रिपृष्ठद्विपृष्ठस्वयंभूः पुरुषोत्तमः पुरुषसिंहः पुरुषादिः । पुंडरीकदत्तः नारायणः कृष्णः अर्धचक्रधराः ।। ८२१ ॥ तिविड । त्रिपृष्टो द्विपुष्टः स्वयंभूः पुरुषोत्तमः पुरुषसिंह: पुरुषपुंडरीकः पुरुषदत्तो नारायणः कृष्णश्वेति नवार्धचक्रधराः स्युः || प्रसंगेन बलवासुदेव
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy