SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। संवच्छरा सहस्सा पणणउदी चउरसीदि सट्ठी य । तीसं दुसयं तिदयं सत्तसया बम्हदत्तस्स ॥ ८२०॥ संवत्सराः सहस्राः पंचनवतिः चतुरशीतिः षष्ठिश्च । त्रिंशत् दशकं त्रितयं सप्तशतानि ब्रह्मदत्तस्य ॥ ८२०॥ संव । पंचनवतिसहस्रवर्षाणि ९५००० चतुरशीतिसहस्रवर्षाणि ८४००० षष्टिसहस्रवर्षाणि ६०००० त्रिंशत्सहस्रवर्षाणि ३०००० दशसहसवर्षाणि १०००० त्रिसहस्रवर्षाणि ब्रह्मदत्तस्य सप्तशतवर्षाणि ७००॥८२०॥ अथ तेषां नवनिधिसंज्ञामाह;-- कालमहकालमाणवपिंगलणेसप्पपउमपांडु तदो। संखो णाणारयणं णवणिहिओ देंति फलमेदं ॥ ८२१ ॥ कालमहाकालमाणवक पिंगल नैसर्पपद्मपांडुस्ततः । शंखः नानारत्नः नवनिधयः ददति फलमेतत् ॥ ८२१ ॥ काल । कालमहाकालौ माणवक पिंगलो नैसर्पः पद्मः पांडुस्ततः शंखो नानारत्नाख्य इति नवनिधयः एतदने वक्ष्यमाणं फलं ददति ॥ ८२१ ॥ अथ नवनिधिभिर्दायमानफलमाह;उडुजोग्गकुसुमदामप्पहदि भाजणयमाउहाभरणं । गेहं वत्थं धण्णं तूरं बहुरयणमणुकमसो ॥ ८२२॥ ऋतुयोग्यकुसुमदामप्रभृति भाजनायुधाभरणं । गेहं वस्त्रं धान्यं तूर्य बहुरत्नमनुक्रमशः ॥ ८२२ ॥ उडु । ते निधयोनुक्रमेण ऋतुयोग्यकुसुमदामप्रतिभाजनमायुधमाभरण गेहं वस्त्रं धान्यं तूर्य बहुरत्नं च दधते ॥ ८२२ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy