________________
• ३२४
त्रिलोकसारे
सिक्खंति जराउछिदि णाभिविणासिंदचावतडिदादि। चरिमो फलअकदोसहिभुत्तिं कम्मावणी तत्तो ॥८०१॥ शिक्षयति जरायुछिदि नाभिविनाशं इंद्रचापतडिदादि । चरमः फलाकृतौषधिभुक्तिं कर्मावनिस्ततः ॥ ८ ० १ ॥ सिक्खं । त्रयोदशो जरायुछिदि शिक्षयति, चरमो नाभिछिदि शिक्षयति इंद्रचापतडिदादिदर्शनभयं निवारयति फलाकृतौषधिभुक्तिं च शिक्षयति, ततः परं कर्मभूमिवर्तते ॥ ८०१ ॥ पुरगामवणादी लोहियसत्थं च लोयववहारो। धम्मो वि दयामूलो विणिम्मियो आदिबम्हेण ॥८०२॥
पुरग्रामपट्टनादिः लौकिकशास्त्रं च लोकव्यवहारः । धोपि दयामूलः विनिर्मितः आदिब्रह्मणा ॥ ८०२ ॥ पुर । पुरग्रामपत्तनादिौकिकशास्त्रं च लोकव्यवहारो दयामूलो धर्मोपि आदिब्रह्मणा विनिर्मितः ॥ ८०२॥
अथ चतुर्थकालसमुत्पन्नशलाकापुरुषान्निरूपयति;चउवीसबारतिघणं तित्थयरा छत्तिखंडभरहवई । तुरिए काले होति हु तेवट्ठिसलागपुरिसा ते ॥ ८०३॥
चतुर्विशतिः द्वादश त्रिघनः तीर्थकराः षट्त्रिखंडभरतपतयः । तुर्ये काले भवंति हि त्रिषष्ठिशलाकापुरुषास्ते ॥ ८०३ ॥
चउवीस । चतुर्विंशतितीर्थकराः दादश षट्खंडभरतपतयः सप्तविंशतिस्त्रिखंडभरतपतयः इत्येते त्रिषष्टि ६३ शलाकापुरुषाश्चतुर्थकाले भवंति ॥८०३॥