________________
नरतिर्यग्लोकाधिकारः ।
हा हामा हामाधिक्काराः पंच पंच पंच श्यामलौ । चक्षुष्मद्विकं प्रसेनचंद्राभौ धवलौ शेषाः कनकनिभाः ॥ ७९८ ॥ हा हा । प्रथमपंचमनवः अपराधिनो हाकारेण दंडयंति, ततः परं पंच मनवः हामाकारण दंडयंति, तदुपरिमपंचमनव: हामाधिक्कारेण दंडयंति । चक्षुष्मान यशस्वीति द्वौ श्यामलौ प्रसेनचंद्राभौ धवलौ, शेषाः सर्वे कनकनिभाः ॥ ७९८ ॥
·
अथ तत्तत्काले तैः क्रियमाणकृत्यं गाथाचतुष्टयेनाह; - इणससितारासावदविभयं दंडादिसीमचिण्हकदिं । तुरगादिवाहणं सिसुमुहदंसणणिव्भयं वेत्ति ॥ ७९९ ॥ इनशशिताराश्वापदविभयं दंडादिसीमाचिह्नकृतिं । तुरगादिवाहनं शिशुमुखदर्शननिर्भयं ब्रुवंति ॥ ७९९ ॥
इण । प्रथमो मनुः प्रजानामिनशशिदर्शनाज्जातभयं निवारयति, द्वितीयस्ता दर्शनभयं तृतीयः क्रूरमृगाद्भयं तर्जनेन, चतुर्थस्तावद्भयं पुनर्दण्डादिना निवारति, पंचमोल्पफलदायिनि कल्पवृक्षे झकटं दृष्ट्रा सीमां करोति तथापि झकटे जाते षष्ठः सीमाचिह्नं करोति, सप्तमो गमने तुरगादिवाहनं करोति, अष्टमः शिशुमखदर्शनान्निर्भयं ब्रवीति ॥ ७९९ ॥ आसीवादादिं ससिपहुदिहि केलिं च कदिचिदिणओत्ति पुत्तेहिं चिरंजीवण सेदुवहित्तादि तरणविहिं ॥ ८०० ॥ आशीर्वादादिं शशिप्रभृतिभिः कलिं च कतिचिद्दिनातम् । पुत्रैः चिरं जीवनं सेतुवहित्रादिभिः तरणविधिं ॥ ८०० ॥
,
३२३
आसी । नवमः शिशूनामाशीर्वादादिक शिक्षयति, दशमः कतिचिद्दिनपर्यंत शशिप्रभृतिभिः केलिं च शिक्षयति, एकादशः पुत्रैश्विरं जीवनभयं निवारयति, द्वादशः सेतुबहित्राभिस्तरणविधिं 'शक्षयति ॥ ८०० ॥