________________
नरतिर्यग्लोकाधिकारः।।
तइंप । तदंपतीनामादिमसंहननसंस्थाने स्यातां वज्रवृषभनाराचसंहननसमचतुरस्रसंस्थाने इत्यर्थः । ते चायनामयुताः, तेषां सुलभेष्वपि पंचाक्षविषयेषु न तृप्तिः ॥ ७९० ॥ चरमे खुदजंभवसा णरणारि विलीय सरदमेघ वा। भवणतिगामी मिच्छा सोहम्मदुजाइणो सम्मा॥७९१॥
चरमे क्षुतज़ंभवशात् नरनार्यो विलीय शरन्मेषं वा । भवनत्रिगामिनः मिथ्याः सौधर्माद्वयायिनः सम्यंचः ॥७९१॥ चरमे । आयुष्यावसाने क्षुतज़ुभयोर्वशायथासंख्यं नरनार्यः शरत्कालमेघवद्विलीय तत्र मिथ्यादृष्टयो भवनत्रयगामिनः सम्यग्दृष्टयः सौधर्मद्विकयायिनः स्युः ॥ ७९१ ॥ __ अथ कर्मभूमिप्रवेशक्रमं तत्रस्थमनूनां च स्वरूपं गाथात्रयेण प्रतिपादयति;पल्लट्ठमं तु सिटे तदिए कुलकरणरा पडिस्सुदिओ। सम्मदिखेमकरधर सीमंकरधर विमलादिवाहणवो ७९२
पल्याष्टमे तु शिष्टे तृतीये कुलकरनराः प्रतिश्रुतिः।
सम्मतिः क्षेमकरधरः सीमंकरधरः विमलादिवाहनः ॥७९२॥ पल्ल। तृतीयकाले पल्याष्टमभागेऽवशिष्टे कुलकरा उत्पद्यते। ते के । प्रतिश्रुतिः सन्मतिः क्षेमकरः क्षेमंधरः सीमंकरः सीमंधरः विमलवाहनः॥७९२ ॥ चक्खुम्मजसस्सी अहिचंदो चंदाहओ मरुद्देओ। होदि पसेणजिदंको णाभी तण्णंदणो वसहो॥७९३ ॥
चक्षुष्मान् यशस्वी अभिचंद्रः चंद्राभः मरुदेवः । भवति प्रसेननितांकः नाभिस्तन्नंदनो वृषभः ॥ ७९३ ॥