________________
३१८
त्रिलोकसारे
तूर्यौगपात्रभूषणपानाहा रांगपुष्पज्योतितरवः । गेहांगा वस्त्रांगा दीपांगैः द्रुमा दशधा ॥ ७८७ ॥
तुरंग । तूर्यौगपात्रांगभूषणांगपाना हारांगपुष्पांगज्योतिरंगगृहांगवस्त्रांगदीपांगैः ः कल्पद्रुमा दशधा भवति ॥ ७८७ ॥
अथ भोगभूमेः स्वरूपमाह;दप्पणसम मणिभूमी चउरंगुल सुरसगंधमउगतणा । खीरुच्छुतो यमघदपरीदवावीदहाइण्णा ॥ ७८८ ॥ दर्पणसमा मणिभूमिः चतुरंगुलसुरसगंधमृदुतृणा । क्षीरेक्षतोयमधुघृतपरीतवापी हदाकीर्णा ॥ ७८८ ॥
-
दप्पण | क्षीरेक्षरसतोयमधुघृतपूरितवापी-हदाकीर्णा चतुरंगुलसुरसगंधमृदुकतृणा दर्पणसमा मणिमयभोगभूमिर्ज्ञातव्या ॥ ७८८ ॥
अथ भोगभूमिजानामुत्पत्त्यवसानांतविधानं गाथात्रयेणाह; -- जादजुगले दिवसा सगसग अंगुट्ठलेह रांगदए । अथिरथिरगदि कलागुणजोवणदंसणगहे जांति ॥ ७८९ ॥ जातयुगलेषु दिवसा सप्तसप्त अंगुष्ठले हे रंगिते ।
अस्थिरस्थिरगत्योः कलागुणयौवनदर्शनग्रहे यांति ॥ ७८९ ॥ जादु । उत्पन्नयुगलेषु अंगुष्ठले हे उत्तानपरिवर्तने अस्थिरगतौ स्थिरगतौ कलागुणग्रहणे यौवनग्रहणे दर्शनग्रहणे च प्रत्येकं सप्त सप्त दिवसा यांति ॥ ७८९ ॥ तपदीणमादिमसंहृदि संठाणमज्जणामजुदा | सुलहेसुविणो तित्ती तेसिं पंचक्खविसएसु ॥ ७९० ॥ तद्दंपतीनामादिमसंहतिसंस्थानं आर्यनामयुताः ।
सुलभेषु अपि नो तृप्तिः तेषां पंचाक्षविषयेषु ॥ ७९० ॥