________________
नरतिर्यग्लोकाधिकारः।
कांतिहीनमिश्रपंचवर्णाः षष्ठे काले धूमश्यामवर्णाश्च । एवं षट्राले वर्णक्रमो ज्ञातव्यः ॥ ७८४ ॥
अथ तेषामाहारक्रमं निरूपयति;-.. अट्ठमछट्टचउत्थेणाहारो पडिदिणेण पायेण । अतिपायेण य कमसो छक्कालणरा हवंतित्ति ॥ ७८५ ॥
अष्टमषष्ठचतुर्थेनाहारः प्रतिदिनेन प्राचुर्येण ।
अतिप्राचुर्येण च क्रमशः षटालनरा भवंतीति ॥ ७८५ ॥ अह । प्रथमकाले अष्टमवेलायां त्रिदिनान्यंतरित्वा इत्यर्थः, द्वितीयकाले षष्ठवेलायां दिनद्वयमंतरित्वेत्यर्थः, तृतीयकाले चतुर्थवेलायां एकदिनमंतरिश्वेत्यर्थः, चतुर्थकाले प्रतिदिनमेकवारं, पंचमकाले बहुवारं, षष्ठकालेतिप्रचुरवृत्त्या । एवं षट्राले नराणामाहारक्रमो भवति ॥ ७८५ ॥
अथ भोगभूमिजानामाहारप्रमाणं निवेदयति;बदरक्खामलयप्पमकप्पदुमदिण्णदिव्वआहारा । वरपहुदितिभोगभुमा मंदकसाया विणीहारा ॥७८६ ॥
बदराक्षामलकप्रमकल्पद्रुमदत्तदिव्याहाराः ।
वरप्रभृतित्रिभोगभूमानः मंदकषाया विनीहाराः ॥ ७८६ ॥ वर । उत्कृष्टादित्रिविधभोगभूमिजाः क्रमेण बदराक्षामलप्रमाणकल्पद्रुमदत्तदिव्याहाराः मंदकषाया विनीहारा भवंति ॥ ७८६ ॥ अथ तत्कल्पतरूणां प्रमाणमाह;-- तूरंगपत्तभूसणपाणाहारंगपुप्फजोइतरू। गेहंगा वत्थंगा दीवंगेहिं दुमा दसहा ॥ ७८७ ।।