________________
नरतिर्यग्लोकाधिकारः ।
२९९
वारनयः ५६००० एवमैरावते रक्तारतोदयोः १४००० हैरण्यवते सुवर्णरूप्यकूलयोः २८०० रम्यकक्षेत्रे नारीनरकांतयोः ५६००० स्वस्वगुणकारेण गुणयित्वा मिलिते आयति ॥ ७४९ ॥ सत्तरसं बाणउदी णभणवसुण्णं णईण परिमाणं । गंगासिंधुमुखाणं जंबूदीवप्पभूदाणं ॥ ७५० ॥
सप्तदश द्वानवतिः नभोनवशून्यं नदीनां परिमाणं । गंगासिंधुमुखानां जंबूद्वीपप्रभूतानाम् ॥ ७६० ॥
सत्तरसं । सप्तदश द्वानवतिर्नभोनवं शून्यं १७९२०९० जंबूद्वीपोद्ध-तानां गंगासिंधुप्रमुखानां सर्वनदीनां प्रमाणं स्यात् । एतच्वोक्तगाथयोरंकानां मेलने स्यात् ॥ ७५० ॥
अथ जंबूद्वीपस्थमंदरादीनां व्यासं निरूपयति ;गिरिभद्दसाल विजयावक्खारविभंगदेवरण्णाणं । पुव्वावरेण वासा एवं जंबू विदेहम्हि ॥ ७५१ ॥ गिरिभद्रशाल विजयवक्षारविभंगदेवारण्यानाम् ।
पूर्वापरेण व्यासा एवं जंबूविदेहे ॥ ७५१ ॥
गिरि । मेरुगिरे: १ भद्रशालयोः २ देशानां १६ वक्षाराणां ८ विभं-गनदीनां ६ देवारण्ययोः २ जंबूद्वीपस्थविदेहे पूर्वापरेण व्यासा, एवं वक्ष्य-माणप्रकारेण कथ्यते ॥ ७५१ ॥
अथ तेषां मेर्वादीनां व्यासानयनविधानमाह;गिरिपहुदीणं बासं इहूणं सगगुणेहि गुणिय जुदं । अवणिय दीवे सेस इट्ठगुणोवट्टिदे दु तव्वासं ॥ ७५२ ॥ गिरिप्रभृतीनां व्यासं इष्टोनं स्वकगुणैः गुणयित्वा युतं । अपनीय द्वीपे शेषं इष्टगुणापवर्तिते तु तद्वयासं ॥ ७५२ ॥