________________
२९८
त्रिलोकसारे
भरह । भरतैरावतयोः सरितां ४ पूर्वापरविदेहयोगंगादिसरितां च ६४ प्रत्येकं चतुर्दशसहस्राणि १४००० परिवारनद्यः, ततः परं भरताद्धरिवर्षपर्यंतं ऐरावतादम्यकक्षेत्रपर्यंतं द्विगुणद्विगुणक्रमो ज्ञातव्यः ॥ ७४७॥ बादालसहस्सं पुह कुरुदुणदी दुगदुपासजादणदी। चोदसलक्खडसदरी विदेहदुगसव्वणइसंखा ॥ ७४८॥
द्वाचत्वारिंशत्सहस्राणि पृथक् कुरुद्वयनद्यः द्विकद्विपार्श्वनातनद्यः । चतुर्दशलक्षाष्टसप्ततिः विदेहद्विकसर्वनदीसंख्या ॥ ७४८ ॥ बादाल । देवोत्तरकुर्वोः नदीद्वयोभयपालजाता नद्यः पृथक् पृथक् द्वाचत्वारिंशत्सहस्राणि देवकुरुजा नद्यः ८४००० उत्तरकुरुजा नद्यः ८४००० विदेहद्वयगतसर्वनदीसंख्या अष्टसप्तत्युत्तरचतुर्दशलक्षाणि १४०००७८ । तत्कथं ? विदेहगतगंगासिंधुसमनदीनां ६४ प्रत्यके परिवारनद्यः १४००० विभंगनदीनां १२ प्रत्येकं परिवारनद्यः २८००० देवोत्तरकुर्वोः सीतासीतोदयोः २ प्रत्येकं परिवारन यः ८४ ००० एतासु स्वस्वगुणकारेण गुणयित्वा तत्र मुख्यनदी ७८ सहितं सर्वासु मिलितासु विदेहद्वयगतसर्वनदीसंख्या ॥ ७४८ ॥ लक्खतियं बाणउदीसहस्स बारं च सव्वणइसंखा । भरहेरावदपहुदी हरिरम्मगखेत्तओत्ति णादव्वा ॥७४९॥
लक्षत्रयं द्वानवतिसहस्रं द्वादश च सर्वनदीसंख्या ।
भरतैरावतप्रभृति हरिरम्यकक्षेत्रांतं ज्ञातव्या ॥ ७४९ ॥ लक्ख । लक्षत्रयं दानवतिसहस्राणि द्वादश च ३९२०१२ भरतैरावतप्रभृतिहरिरम्यकक्षेत्रपर्यंत सर्वनदीसंख्या ज्ञातव्या । तत्कथं ? भरते गंगासिंध्वोः २ प्रत्येकं परिवारनद्यः १४००० हैमवते रोहिद्रोहितास्ययोः २ प्रत्येकं परिवारनद्यः २८००० हरिक्षेत्रे हरिद्धारकांतयोः २ प्रत्येकं परि