________________
नरतिर्यग्लोकाधिकारः।
२९१
nanana
AAAAN
naparkorammarrrrrn.
गिरिदीहो जोयणदलवासो वेदी दुकोसतुंगजुदा । धणुपणसयवासा णगवणणदिदहपहुदिएमु समा ७३०
गिरिदैर्घ्य योजनदलव्यासं वेदी द्विकोशगयुता ।
धनुःपंचशतव्यासा नगवननदीह्रदप्रभृतिषु समाः ॥ ७३० ॥ गिरि । गिरिदैर्घ्यमेव दैर्घ्य योजनार्धव्यासं तस्य वेदी तु धनुःपंच. शतव्यासा कोशद्वयोत्तुंगयुता स्यात् । सा वेदी नगवननदी-हदप्रभृतिषु सर्वत्र समाना ॥ ७३० ॥ __सांप्रतं पर्वतादिषु सर्वत्र वेदिकासंख्यामाह;तिसदेक्कारससेले णउदीकुंडे दहाण छब्बीसे । तावदिया मणिवेदी णदीसु सगमाणदो दुगुणा॥७३१॥
त्रिशतैकादशशैलेषु नवतिकुंडेषु ह्रदानां षड्रिंशतौ । ___ तावत्यः मणिवेद्यः नदीषु स्वकमानतः द्विगुणाः ॥ ७३१ ॥ तिस । जंबूद्वीपस्य त्रिशतैकादश ३११ शैलेषु तावत्यो मणिमयवेद्यः नवतिकुंडेषु ९० तावत्यो मणिमयवेद्यः -हदानां षड्विंशतौ २६ तावत्यो मणिमयवेयः नदीषु स्वकीयप्रमाणतो द्विगुणा मणिमयवेद्यः स्युः ॥ इत उक्तार्थ विवृणोति-तत्रैको मंदरः १ षट् कुलाचलाः ६ चत्वारो यमकगिरयः ४ द्विशतं कांचनपर्वता २०० अष्टौ दिग्गजपर्वता: ८ षोडश वक्षाराः १६ चत्वारो गजदंताः ४ चतुस्त्रिंशद्विजयार्धाः ३४ चतुस्त्रिंशद् वृषभाचलाः ३४ चत्वारो नाभिनगाः ४ एतेषु मिलितेषु त्रिशतैकादश ३११ शैलसंख्या भवति । गंगादिमहानदीपतनकुंडानि चतुर्दश १४ विभंगनद्युत्पत्तिकुंडानि द्वादश १२ गंगासिंधुसमाननयुत्पत्तिकुंडानि चतुःषष्ठिः ६४ एतेषु मिलितेषु नवतिकुंडानि ९० भवंति । कुलगिरिह्रदाः षट् ६ सीताह्रदा दश १० सीतोदा ह्रदा दश १० एतेषु मिलितेषु षड्विंशति