________________
२९२
त्रिलोकसारे
ह्रदा २६ भवंति । गंगासिंधुरक्तारक्तोदानां ४ प्रत्येकं परिवारनदी १४००० स्वगुणकारेण ४ गुणयित्वा ५६००० रोहिद्रोहितास्यासुवर्णरूप्यकूलानां ४ प्रत्येकं परिवारनदीः २८००० स्वगुणकारेण ४ गुणयित्वा ११२००० हरिद्धरिकांतानारीनरकांतानां ४ प्रत्येकं परिवारनदीः ५६००० स्वगुणकारेण ४ गुणयित्वा २२४००० देवोत्तरकुरुस्थयोः सीतासीतोदयोः २ प्रत्येकं परिवारनदीः ८४००० तथा २ गुणयित्वा १६८००० विभंगनदीनां १२ प्रत्येक परिवारनदीः २८००० तथा १२ गुणयित्वा ३३६००० गंगासिंधुरक्तारक्तोदानां विदेहस्थनदीनां ६४ प्रत्येक परिवारनदीः १४००० तथा ६४ गुणयित्वा ८९६००० एतानि सर्वाण्यकानि मेलयित्वा १७९२००० । अत्र गुणकारमुख्यनदीः ९० मेलने १७९२०९० जंबूद्वीपसर्वनदीसंख्या । अत्र स्वप्रमाणतो १७९२०९० द्विगुणा ३५८४१८० मणिमयवेद्यो ज्ञातव्याः ॥ ७३१ ॥ __अथ भरतैरावतस्थविजयार्धकूटान तत्रस्थदेवांश्च गाथाचतुष्टयेनाइ;सिद्धं दक्खिणअद्धादिमभरहं खंडयप्पवादमदो। तो पुण्णभद्द वेयडकुमारं माणिभद्दक्खं ॥ ७३२॥
सिद्धं दक्षिणार्धादिमभरतं खंडप्रपातमतः ।
ततः पूर्णभद्रं विजयार्धकुमारं माणिभद्राख्यं ॥ ७३२ ॥ सिद्धं । सिद्धकूटं दक्षिणार्धभरतं खंडप्रपातं, ततःपूर्णभद्रं विजयाईकुमारं माणिभद्राख्यं ॥ ७३२ ॥ तामिस्सगुहगमुत्तरभारहकूडं च वेसवण चरिमं । सिद्धुत्तरद्धतामिस्सादिमगुहगं च माणिभद्दमदो॥७३३॥
तामिश्रगुहमुत्तरभरतकूटं च वैश्रवणं चरमं । सिद्धोत्तरार्धतामिश्रादिमगुहं च माणिभद्रमतः ॥ ७३३ ॥