SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारेजंबुसमवण्णणो सो दक्खिणसाहम्हि जिणगिहं सेसे । दिससाहतिए गरुडवइवेणूवेणादिधारिगिहं ॥ ६५२ ॥ जंबूसमवर्णनः स दक्षिणशाखायां जिनगृहं शेषे । दिशाशाखात्रये गरुडपतिवेणुवेण्वादिधारिगृहम् ॥ ६५२ ॥ जंबू । असौ जंबूसमवर्णनः, तस्य दक्षिणशाखायां जिनगृहमस्ति । शेषे दिग्गतशाखात्रये गरुडपत्योर्वेणुवेणुधारिणोः गृहाः संति ॥ ६५२ ॥ __ अथ भोगभूमिकर्मभूम्योविभागमाह;कुरुओ हरिरम्मगभू हेमवदेरण्णवदखिदी कमसो । भोगधरा वरमज्झिमवराय कम्मावणी सेसा ॥ ६५३ ॥ कुरू हरिरम्यकभुवौ हैमवतैरण्यवतक्षिती क्रमशः । भोगधराः वरमध्यमावराः कर्मावनयः शेषाः ।। ६५३ ॥ कुरुओ । देवकुरूत्तरकुरुक्षेत्रे द्वे उत्तमभोगभूमी हरिरम्यकक्षेत्रे द्वे मध्यमभोगभूमी हैमवतहैरण्यवतक्षेत्रे द्वे जघन्यभोगभूमी स्यातां । शेषाः सर्वाः कर्मभूमयः ॥ ६५३ ।। अथ यमकगिरेः स्वरूपं गाथाद्वयेनाह;--- णीलणिसहादु गत्ता सहस्समुभए तडे वरणईणं । दुगदुगसेला पुवो चित्तो अपरो विचित्तक्खो ॥६५४॥ नीलनिषधतो गत्वा सहस्रमुभये तटे वरनद्योः । द्विकद्विकशैलौ पूर्वः चित्रः अपरः विचित्राख्यः ॥ ६१४ ॥ णील । नीलनिषधाभ्यां पुरस्तात् सहस्रयोजनं गत्वा वरनद्योः सीतासीतोदयोरुभयतटे द्वौ द्वौ शैलौ भवतः । तयोर्मध्ये पूर्वतटगतश्चित्रोऽपरतटगतो विचित्राख्यः ॥ ६५४ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy