________________
नर तिर्यग्लोकाधिकारः ।
मध्ये सिंहासनं जिनस्य दक्षिणगतं त सौधर्मे । उत्तरमीशानेंद्रे भद्रासनमिह त्रयं वृत्तम् || ६३६ ॥ मज्झे । तत्र मध्ये जिनेंद्रस्य सिंहासनं सौधर्मस्य दक्षिणगतं भद्रासनं ईशानस्योत्तरगतं भद्रासनं इतदासनत्रयं वृत्तम् ॥ ६३६ ॥
अथ तदासनानामुदयादिकं मेरोश्चलिकास्वरूपं चाह;उदयं भूमुहवासं धणु पणपणसयतदद्वपुव्वमुहा । वेलुरिय चूलियस्स य जोयण चत्तं तु बारचउ ॥ ६३७॥ उदयं भूमुखव्यासं धनुः पंचपंचशतं तदर्धपूर्वमुखाः । वैडूर्यचूलिकायाश्च योजनं चत्वारिंशत् तु द्वादश चत्वारि ॥ ६३७॥ उदयं । तदासनानामुदयभूमुखव्यासाः यथासंख्यं पंचशत ५०० पंचशत ५०० तदर्ध २५० धनुः प्रमिताः पूर्वमुखाश्च वैडूर्यमय्या मेरोश्वलिकायाश्वोदयभूमुखव्यासा यथासंख्यं चत्वारिंशत् ४० द्वादश १२ चत्वारि ४ योजनानि स्युः ॥ ६३७ ॥
२६१
अथ उक्तानां सर्वेषां कंचिद्विशेषमाह; --- पव्वदवावीकूडा सव्वाओ पंडुगादिय सिलाओ । वणवेदितोरणेहिं णाणामणिणिम्मिएहिं जुदा ॥ ६३८ ॥ पर्वतवापीकूटाः सर्वे पांडुकादिकाः शिलाः !
वनवेदीतोरणैः नानामणिनिर्मितैः युताः ॥ ६३८ ॥
पव्वद । पर्वताः वाप्यः कूटाः पांडुकादिकाः शिलाश्च सर्वे नानामणिनिर्मितैर्वनैर्वेदाभिस्तोरणैश्च युताः स्युः ॥ ६३८ ॥
अथ जंबूवृक्षस्थानादिकं सपरिकरं गाथैकादशकेनाह; -- णीलसमीवे सीदापुव्वतडे मंदराचलीसाणे । उत्तरकुरुम्हि जंबूथली सपंचसयतलवासा ॥ ६३९ ॥