________________
२६२
त्रिलोकसारे
नीलसमीपे सीतापूर्वतटे मंदराचलैशान्यां ।
उत्तरकुरौ जंबूस्थली सपंचशततलव्यासा ॥ ६३९ ॥ णील । नीलगिरेः समीपे सीतानद्याः पूर्वतटे मंदराचलस्यैशान्यां दिशि उत्तरकुरौ पंचशतयोजनव्यासा जंबूवृक्षस्थल्यस्ति ।। ६३९ ।। अंते दलबाहल्ला मज्झे अद्रुदय वट्ट हेममया । मज्झे थलिस्स पीठीमुदयतियं अट्ठबारचऊ ।। ६४०॥
अंते दलवाहल्या मध्ये अष्टोदया वृत्ता हेममया ।
मध्ये स्थल्याः पीठमुदयत्रयं अष्टद्वादशचतुः ॥ ६४० ॥ अंते । सा च पुनरंते दल ३ योजनबाहल्या मध्येष्टयोजनोदया वृत्ताकारा हेममयी स्यात् । तत्स्थलीमध्येऽष्टयोजनोदयं द्वादशयोजनभूव्यासं चतुर्योजनमुखव्यासं पीठमस्ति ॥ ६४० ॥ तत्थलिउवरिमभागे बाहिं बाहिं पवेढिऊण ठिया । कंचणवलयसमाणा बारंबुजवेदिया णेया ॥ ६४१ ॥
तत्स्थल्युपरिमभागे बहिबहिः प्रवेष्टय स्थिताः ।
कांचनवलयसमानाः द्वादशांबुनवोदकाः ज्ञेयाः ॥ ६४ १ ॥ तत्थलि । तत्स्थल्युपरिमभागे बहिर्बहिः प्रवेष्टय कांचनवलयसमानाः अर्धयोजनोत्सेधाः उत्सेधाष्टमव्यासाः नानारत्नसंकीर्णाः अंबुजवेदिका बादश ज्ञेयाः ॥ ६४१॥ घउगोउरवं वेदीबाहिरदो पढमबिदियगे सुण्णं । तदिए सुरुत्तमाणं अट्ठदिसे अट्ठसयरुक्खा ॥ ६४२॥
चतुर्गोपुरका वेदीबाह्यतः प्रथमद्वितीयके शून्यं । तृतीये सुरोत्तमानां अष्टदिशासु अष्टशतवृक्षाः ।। ६४२ ॥