SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५२ त्रिलोकसारे इदि जोयण एगारहभागो जदि वदे पहायदि वा। तलणंदणसोमणसे किमिदि चयं हाणिमाणिज्जो॥६१४॥ इति योजनस्य एकादशभागः यदि वर्धते प्रहीयते वा । तलनंदनसौमनमे किमिति चयं हानिरानेतव्यम् ॥ ६१४ ॥ इदि । एकयोजनोदयस्य १ एकयोजनैकादशभागो र यदि वर्धते प्रहीयते वा तदा मेरुतलनंदनसौमनसानामुदयस्य १०००।५००।५१५०० कियद्वर्धते प्रहीयते चेति संपात्य हानिचयमानेतव्यं । तलव्यासे वृद्धिः ९०१ नंदने हानिः ४५१ सौमनसे हानिः ४६८१ ॥ ६१४ ॥ सगसगहाणिविहीणे भूवासे चयजुदे मुहव्वासे । गिरिवणबहिरन् तरतलविस्थारप्पमा होदि ॥६१५॥ स्वकस्वकहानिविहीने भूव्यासे चययुते मुखव्यासे । गिरिवनबाह्याभ्यंतरतलविस्तारप्रमा भवति ॥ ६१५ ॥ सग । मेरोस्तत्तत्कणयगतभूव्यासे स्वकीयस्वकीयहानौ विहीनायां सत्यां तत्तन्मुखव्यासे च तत्तच्चये युते सति गिरेस्तलविस्तारप्रमाणं भवति, वनस्य बाह्याभ्यंतरविस्तारप्रमाणं च भवति । प्रागानीतमेरुतलहानिचये ९०१७ मेरो व्यासे १०००० मिलिते सति १००९०१६ चित्रातले व्यासो भवति । तत्र तस्यां हाना ९०१६ वपनीतायां १०००० मेरोभूव्यासः । एतावत्यपसरणे १ एकयोजनोदयश्चेत्येतावति ९०१२ अपसरणे कियानुदय इति संपात्य समच्छेदेन १९० अंशं १९ ऑशनि ९० मेलयित्वा १००० ११ अपवर्तिते १००० मेरो व्यासपर्यंतमुत्सेधः स्यात् । नंदनस्य हानिचय ४५१, भूव्यासे १०००० अपनीते ९९५४६६ नंदनबाह्यव्यासः स्यात् । तद्धानिचयांश १३ अंशिनोः ४५ समच्छेदेन संमेल्य ५९. एतावदपसरणे का एकयोजनोदयश्चेदेतावदपसरणे ५०० किमिति संपात्यापवर्तिते ५०० भद्रसालानंदनपर्यंतमुत्सेधः स्यात् । नंदनबाह्यव्यासे
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy