SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ नरतियग्लोकाधिकारः। २५१ २५१ सुदर्शनस्य दक्षिणोत्तरभद्रशालवनप्रमाणमाह;-- पढमवणडसीदंसो दक्खिणउत्तरगभद्दसालवणं । बिसदं पण्णासहियं खुल्लयमंदरणगेबि तहा ॥६१२ ॥ प्रथमवनाष्टाशीत्यशः दक्षिणोत्तरगभद्रशालवनम् । . द्विशतं पंचाशदधिकं क्षुल्लकमंदरनगेपि तथा ॥ ६ १२ ॥ पढम । सुदर्शनमेरोः पूर्वपरभद्रशालवनस्य २२००० अष्टाशीति ८८ भागो दक्षिणोत्तरगतभद्रशालवनप्रमाणं स्यात् । पंचाशत्साहितं द्विशतं २५० तल्लब्धं स्यात् । क्षुल्लकमंदरनगेष्वपि तथा वक्ष्यमाणपूर्वीपरभद्रशालस्याष्टाशीत्यंश एव तथा दक्षिणोत्तरभद्रशालवनप्रमाणं स्यात् ॥ ६१२ ।। अथ वनोभयपार्श्वगतवेदीस्वरूपमाह;वेदी वणुभयपासे इगिदलचरणुदयवित्थरोगाढो। हेमी सघंटघंटाजालसुतोरणग बहुदारा ॥ ६१३ ॥ वेदी वनोभयपाधैं एकदलचरणोदयविस्तारावगाधाः । हैमी सघंटघंटाजालसुतोरणका बहुद्वारा ॥ १३ ॥ वेदी । भद्रशालादिवनोभयपाश्र्वे हेममया महाघंटा क्षुल्लकघंटाजालालंकृतसुतोरणयुतबहुद्वारा वेद्यस्ति । तस्या उदयविस्तारावगाधा यथासंख्यं एकयोजनार्धयोजनयोजनचतुर्थांशाः स्युः ॥ ६१३॥ अथ मेरोश्चित्रातलव्यासानयने नंदनसौमनससमरुंद्रादिक्षेत्रव्यासोदयानयने च हानिचयानयनार्थ गाथाद्वयमाह । तद्यथा । मेरोर्मुखं १००० तद्भूमौ १०००० विशेषयित्वा ९००० एतावतो मेरूदयस्य ९९००० एतावति हानिचये ९००० एकयोजनस्य कियद्धानिचयमिति संपात्य नवभिरपवर्तिते एवं एतद्धानिचयं धृत्वा अपरत्रैराशिकविधानमुच्यते । तत्र प्रथमामिदं त्रैराशिके ज्ञेयम्;-..
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy