________________
त्रिलोकसारे
एवमुक्तत्रैराशिकानीतभरतक्षेत्र व्यासमुच्चारयति;भरहस्स य विक्खंभो जंवूदीवस्स णउदिसदभागो । पंचसया छव्वीसा छच्च कला ऊणवीसस्स ।। ६०४ ॥
भरतस्य च विष्कंशे जंबूद्वीपस्य नवतिशतभागः । पंचशतानि षड़िशानि षट् च कला एकोनविंशतः ॥६०४॥ भरह । भरतस्य विष्कंभो जंबूदीपस्य १ ल. नवतिशत भागः १९० स क इतिचेत्, पंचशतयोजनानि षड्रिंशत्यधिकानि एकोनविंशतेः षट्कलाभ्यधिकानि भरतविष्कंभः स्यात् । ५२६६६६ ।। ६०४ ॥
तथा त्रैराशिकेन सिद्धं विदेहाविष्कभांक प्रतिपादयन् अत्रैवोपरि वक्ष्यमाणविदेहक्षेत्रादीनामानयनविधानमाह; - चुलसीदि छतेत्तीसा चत्तारि कला विदेहविक्खंभो । णदिहीणदलं विजया वक्खारविभंगवणदहा ॥६०५॥
चतुरशीति षट्त्रयस्त्रिंशत् चतस्रः कला विदेहविष्कंभः ।
नदीहीनदलं विजयवक्षारविभंगवनदीर्घ ॥ ६०५ ॥ चुल । चतुरशीतिषट् त्रयस्त्रिंशयोजनानि एकानविंशतेश्चतस्रः कलाश्च ३३६८४१९ विदेहविष्कभः स्यात् । अत्र नदीप्रमाणं निर्गमे ५० समुद्रप्रवेशे ५०० मध्ये यथासंभवं हीनयित्वा ३३१८४६ अर्धीकृते १६५९२२ तद्देशवक्षारपर्वतविभंगनदीवनानां दैर्घ्यप्रमाणं स्यात् ॥ ६०५ ॥
सांप्रतं विदेहमध्यस्थितमंदरगिरेः स्वरूपमाचष्टे:मेरू विदेहमज्झे णवणउदिदहेक्कजोयणसहस्सा। उदयं भूमुहवासं उवरुवरिगवणचउक्कजुदा ॥ ६०६ ।
मरुः विदेहमध्ये नवनवतिदशैकयोजनसहस्राणि । उदयः भूमुखव्यासः उपर्युपरिगवनचतुष्कयुतः ॥ ६०६ ॥