SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। २४७ अथ तासां नदीनां तोरणस्वरूपं गाथाद्वयेनाह;-- णदिणिग्गमे पवेसे कुंडे अण्णत्थ चावि तोरणयं । विंबजुदं उवरिं तु दिक्कण्णावाससंजुत्तं ॥ ६०१ ॥ नदीनिम्मे प्रवेशे कुंडे अन्यत्र चापि तोरणकम् । .. बिंबयुतं उपरि तु दिक्कन्यावाससंयुक्तम् ॥ ६०१ ।। ___णदि । नदीनिर्गमे प्रवेशे कुंडे अन्यत्रापि च उपरि जिनबिंबयुतं दिक्कन्यावाससंयुक्तं तोरणमस्ति ।। ६०१ ॥ . तत्तोरणवित्थारो सगसगणदिवाससरिसगो उदओ। वासादु दिवड्गुणो सव्वत्थ दलं हवे गाहो ॥ ६०२॥ तत्तोरणविस्तारः स्वकस्वकनदीव्याससदृशक: उदयः । व्यासात् द्वयर्धगुण्यः सर्वत्र दलं भवेत् गाधः ६०२॥ तत्तोरण । तत्तोरणानां विस्तारः स्वकीयस्वकीयनदीव्यास ६४ सदृशः, उदयस्तु व्यासात् द्वितीयार्ध ३ गुण्यः ९ है । सर्वत्र तोरणानां गाध: अर्धयोजनप्रमितं भवेत् ॥ ६०२ ॥ अथ पूर्वोक्तवर्षवर्षधरपर्वतानां विस्तारानयने करणसूत्रमाह;विजयकुलद्दी दुगुणा उभयंतादो विदेहवस्सोत्ति । गुणपिंडदीवसगगुणगारो हु पमाणफलइच्छा ॥६०३॥ विजयकुलाद्रयः द्विगुणा उभयांततः विदेहवर्षान्तं । गुणपिंडद्वीपस्वकगुणकारो हि प्रमाणफलेच्छाः ॥ ६०३ ॥ विजय । विजया देशा इत्यर्थः कुलाद्रयश्च उभयांततः विदेहपर्यंत द्विगुणद्विगुणा भवंति, गुणकारपिंड १९० द्वीप १००००० स्वकीयस्वकीयगुणकाराः भर १ हिम २ हैम ४ यथासंख्यं प्रमाणफलइच्छाः खलु । अनेन त्रैराशिकेन तत्र क्षेत्रपर्वतानां विस्तारः आनेतव्यः॥ ६०३॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy