________________
नरतिर्यग्लोकाधिकारः ।
हेमार्जुनतपनीयाः क्रमशः वैडूर्यरजत हेममयाः । एकद्विकचतुश्चतुर्द्विकैकशततुंगा भवंति हि क्रमेण ॥ १६६ ॥
२३५
हेम। हिमवर्णः अर्जुनवर्णः श्वेत इत्यर्थः । तपनीयवर्णः कुक्कटचूडछविरित्यर्थः वैडूर्यवर्णः मयूरकंठच्छविरित्यर्थः, रजतवर्णः हेममयः एते क्रमशः तेषां पर्वतानां वर्णाः एकशतः द्विशतः चतुःशतः चतुःशतः द्विशतः एकशत: क्रमेण तेषामुत्सेधा भवति ॥ ५६६ ।।
इदानीं हिमवदादिकुलपर्वतानामुपरि स्थितह्रदानां नामान्याह; - पउममहापउमा तिगिंछा केसरि महादिपुण्डरिया | पुंडरिया य दहाओ उवरिं अणुपव्वदायामा ॥ ५६७। पद्म महापद्मः तिछि: केसरिः महादिपुंडरीकः । पुंडरीकश्च हृदा उपरि अनुपर्वतायामाः ॥ ९६७ ॥
पडम । पद्मो महापद्मस्तिगिंछः केसरिः महापुंडरीकः पुंडरीक इत्येते ह्रदास्तेषामुपरि पर्वतानुवर्त्ययामास्तिष्ठति ॥ ५६७ ॥
अथ तेषां ह्रदानां व्यासादिकं प्रतिपादयन् तत्रस्थांबुजानां स्वरूपं निरूपयति ;वासायामोगाढं पणदसदसमहदपव्वदुदयं खु । कमलस्सुदओ वासो दोविय गाहस्स दसभागो ॥ ५६८ ॥ व्यासायामागाधाः पंचदशदश महतपर्वतोदयाः खलु । कमलस्योदयः व्यासः द्वावपि गाधस्य दशभागौ ॥ ५६८ ॥
-
वासा । तेषां ह्रदानां व्यासायामागाधा यथासंख्यं पंचगुणितदशगुणित - दशमभागहततत्तत्पर्वतोदयाः १०० २०० ४०० ४०० २०० १०० खलु । व्या ५०० = आ १००० वे १० तत्रस्थकमलस्योदयव्यासौ तु द्वावपि तत्तद्धदानां गाधदशमभागौ ज्ञातव्यौ ।। ५६८ ॥