SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २३४ त्रिलोकसारे जंबूद्वीपे एकः इषुकृतपूर्वापरचापद्वीपद्विके । द्वौ द्वौ मंदरशैलौ बहुमध्यगविजयबहुमध्ये ॥ ५६३ ॥ जंबू । जंबूद्वीपे एको मंदरः इक्ष्वाकारपर्वतकृतपूर्वापरचापद्वीपद्विके दौ दौ मंदरशैलौ । तत्रापि ते मंदराः क तिष्ठति ? भरतादिदेशानामतिशयेन मध्यस्थितो विजयः देश इत्यर्थः तस्यात्यंतमध्यप्रदेशे तिष्ठति ॥ ५६३ ।। अथ तेषां मंदराणामुभयपास्थितक्षेत्राणां नामानि कथयति;दक्खिणदिसासु भरहो हेमवदो हरिविदेहरम्मो य । : हइरण्णवदेरावदवस्सा कुलपव्वयंतरिया ॥ ५६४ ॥ दक्षिणदिशासु भरतो हैमवतः हरिविदेहरम्यश्च । हैरण्यवदैरावतवर्षाः कुलपर्वतांतरिताः ॥ ५६४ ॥ दविखण । तेषां मंदराणां दक्षिणदिशाया आरभ्य भरतः हैमवतः हरिः विदेहः रम्यकः हैरण्यवतः ऐरावत इत्येते वर्षा हिमवदादिकुलपर्वतांतरिताः ॥ ५६४ ॥ अथ तेषां पर्वतानां नामादिकं गाथाद्वयेनाह;हिमवं महादिहिमवं णिसहो णीलो य रुम्मि सिहरी य मूलोवरि समवासा मणिपासा जलणिहिं पुट्ठा ॥५६५॥ हिमवान् महादिहिमवान् निषधः नीलश्च रुक्मी शिखरी च । मूलोपार समन्यासा मणिपार्था जलनिधिं स्पृष्टाः ॥ ५६५ ॥ हिमवं । हिमवान् महाहिमवान् निषधो नीलश्च रुक्मी शिखरी च, एते सर्वे मूलोपरि समानव्यासा: मणिमयपाश्र्वा जलनिधिं स्पृष्टाः ॥ ५६५ ॥ हेमज्जुणतवणीया कमसो वेलुरियरजदहेममया । इगिदुगचउचउदुगइगिसयतुंगा होंति हु कमेण ॥५६६
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy