SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३६ त्रिलोकसारे अथ तेषां कमलानां विशेषस्वरूपं गाथाद्वयेनाह - णियगंधवासियदिसं वेलुरियविणिम्मिउच्चणालजुदं । एक्कार सहस्सदलं णववियसियमत्थि दहमज्झे ॥ ५६९ ॥ निजगंधवासितदिशं वैडूर्यविनिर्मितोच्चनालयुतम् । एकादशसहस्रदलं नवविकसितमस्ति हृदमध्ये || ५६९ ॥ णिय । निजगंधवासितदिशं वैडूर्यविनिर्मितोच्चनालयुतं एकादशोत्तरसहस्रदलं नवविकसितं पृथ्वीसाररूपं कमलं तेषां ह्रदानां मध्ये अस्ति ॥५६९ अथ एतदनुगुणं प्रक्षेपगाथामाह; - दहमझे अरविंदयणालं बादालकोसमुव्विद्वं । इगिकोसं बाहलं तस्स मुणालं ति रजदमयं ॥ ५७० ॥ हृदमध्ये अरविन्दकालं द्वाचत्वारिंशत्क्रोशोत्सेधम् । एकक्रोशं बाहल्यं तस्य मृणालं त्रिः रजतमयम् ॥ १७० ॥ दह । ह्रदमध्येरविंदस्य नालं द्वाचत्वारिंशत्काशोत्सेधं एककोशबाहल्यं तस्य मृणालं तु त्रिकोशबाहल्यं रजतमयं स्यात् ॥ ५७० ॥ कमलदलजलविणिग्गयतुरियुदयं वास कण्णियं तत्थ । सिरिरयणगिहं दिग्घति को तस्सद्धमुभयजोगदलं ॥ कमलदलजलविनिर्गततुर्योदयः व्यासः कर्णिकायाः तत्र । श्रीरत्नगृहं दैर्घ्यत्रिकं क्रोशः तस्यार्थमुभययोगदलं ॥ १७१ ॥ कमल । कमलोत्सेधार्धमेव नालस्य जलविनिर्गति: कमलचतुर्थांश एव उदास कर्णिकायाः । तत्र श्रीदेवताया रत्नमयं गृहमस्ति तस्य दैर्ध्य - त्रिकं दैर्घ्यव्यासोदयाः यथासंख्यं कोशप्रमाणं तस्यार्धं तयोरुभययोयोगार्धं च स्यात् ॥ ५७१ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy